Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 05 जुलाईमासः(हि.स.)।
मुख्यमन्त्री डा. हिमन्तबिस्वसरमा जापानीभाषायाः प्रशिक्षणं प्राप्नुवद्भ्यः विद्यार्थिभ्यः महतीं घोषणां कुर्वन् उक्तवान् यत् प्रत्येकं प्रशिक्षवे परीक्षायाः पूर्वमेव आहत्य एकलक्षरूप्यकाणां वित्तीयसहायता प्रदास्यते।
गडचुकस्थिते उत्तरपूर्वकौशलविकासकेन्द्रे प्रशिक्षुभिः सह संवादं कुर्वन् मुख्यमन्त्री उक्तवान् यत् प्रशिक्षणस्य प्रथममासत्रयस्य समाप्तौ ३० सहस्ररूप्यकाणि, षण्मासानां समाप्तौ ३० सहस्ररूप्यकाणि तथा नवमासानां समाप्तौ अवशिष्टानि ४० सहस्ररूप्यकाणि प्रदास्यन्ते।
सः उक्तवान् यत् जापानदेशस्य प्रवेशानुमतिपत्रं प्राप्त्वा प्रत्येकस्मै प्रशिक्षवे अतिरिक्तानि ५० सहस्ररूप्यकाणि अपि प्रदास्यन्ते। मुख्यमन्त्री उक्तवान् यत् अनेन प्रशिक्षणेण केवलं जापानदेशे एव न, अपितु असमप्रदेशे सम्पूर्णभारते च रोजगारस्य अवसराः उपलब्धाः भविष्यन्ति। सः सूचितवान् यत् सम्प्रति भारते १,५०० अधिकाः जापानीकम्पन्यः कार्यरताः सन्ति तथा आगामिषु द्वित्रिषु वर्षेषु अनेकासां जापानीकम्पनीनाम् असमप्रदेशम् आगमनस्य सम्भावना अस्ति।
-----------
Hindusthan Samachar / Dheeraj Maithani