Enter your Email Address to subscribe to our newsletters

पटनानगरम्, ०५ जुलाईमासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राट-चौधरी रविवासरे अखिल-भारतीय-आयुर्विज्ञान-संस्थायाः, पटना-शाखायाः निरीक्षणं कृत्वा स्वास्थ्य-सेवानां, चिकित्सा-आधारभूत-संरचनायाः, संस्थायाः विस्तार-सम्बद्ध-योजनानां च समीक्षाम् अकरोत्। अस्मिनवसरे तेन एम्स-संस्थायाः विस्तारार्थं अतिरिक्त-२४ एकड-परिमिता भूमिः प्रदास्यते इति तथा पटना-एम्सतः नाथूपुर-पर्यन्तं चतुर्मार्गीय-मार्ग-निर्माणे राज्य-सर्वकारस्य पूर्ण-सहयोगस्य आश्वासनं दत्तम्।
निरीक्षणकाले मुख्यमन्त्री अवदत् यत् अतिरिक्त-भूमेः उपलब्ध्या एम्स-संस्थायां प्रायः २०० नूतन-शय्याः संयोजयितुं शक्यन्ते, येन रोगिणां उपचार-क्षमता वर्धिष्यते। तेन उक्तं यत् राज्य-सर्वकारः संस्थायाः विस्ताराय स्वास्थ्य-सेवानां सुदृढीकरणाय च सर्वथा सहयोगं करिष्यति।
मुख्यमन्त्री अवदत् यत् पटना-एम्सतः नाथूपुर-पर्यन्तं चतुर्मार्गीय-मार्गस्य निर्माणार्थम् आवश्यकः समन्वयः सहयोगश्च अपि राज्य-सर्वकारेण प्रदास्यते। तस्य मते मार्गस्य निर्माणेन रोगिणां, तेषां परिजनानां, सामान्य-जनानां च चिकित्सालयं प्रति गमनम् अधिकं सुकरं भविष्यति तथा यातायात-व्यवस्थायामपि सुधारः भविष्यति।
दग्ध-रोगिणाम् उपचारं अधिकं प्रभावकरं कर्तुं त्वक्-भण्डारणस्य आधुनिक-सुविधायाः विकासार्थमपि राज्य-सर्वकारस्य सहयोगस्य आश्वासनं तेन दत्तम्। तेन उक्तं यत् अनेन गम्भीररूपेण दग्ध-रोगिभ्यः समये उत्तम-चिकित्सां प्रदातुं सहायता भविष्यति।
निरीक्षणकाले मुख्यमन्त्री दग्ध-रोगी-विभागस्य भ्रमणं कृत्वा तत्र रुग्णै: सह मिलित्वा तेषां स्वास्थ्यस्य विषये सूचनाम् अलभत। तेन रुग्णै: तेषां परिजनैश्च सह संवादं कृत्वा उपलब्ध-चिकित्सा-सुविधानाम् अपि अवलोकनम् अकरोत् तथा रोगिणां शीघ्र-स्वास्थ्यलाभस्य कामनाम् अकरोत्।
एम्स-परिसरे स्थितस्य तडागस्य निरीक्षणं कुर्वन् मुख्यमन्त्री अधिकारिभ्यः तस्य जीर्णोद्धारस्य निर्देशान् अददात्। तेन उक्तं यत् तडागः पर्यटनस्य आकर्षणस्य च केन्द्ररूपेण विकसितः भवेत्, येन पर्यावरण-संरक्षणेन सह परिसरस्य सौन्दर्यमपि वर्धेत।
मुख्यमन्त्री अवदत् यत् बिहार-सर्वकारः राज्ये गुणवत्तायुक्त-स्वास्थ्य-सेवानां विस्ताराय चिकित्सा-आधारभूत-संरचनायाः सुदृढीकरणाय च प्रतिबद्धः अस्ति तथा पटना-एम्स-संस्थायाः विकासेन सम्बद्धेषु सर्वेषु आवश्यक-कार्येषु सक्रिय-सहयोगं प्रदास्यति।
Hindusthan Samachar / Divya Ranjan