Enter your Email Address to subscribe to our newsletters

नवदेहली, ०५ जुलाईमासः (हि.स.)। देहली-सर्वकारस्य मुख्यमन्त्री रेखा-गुप्ता अवदत् यत् राजधानीस्थाः सर्वकारीय-विद्यालयाः केवलं शिक्षाकेन्द्राणि न स्युः, अपितु बालकानां कृते सुरक्षिताः, स्वच्छाः, आधुनिकाः प्रेरणादायकाश्च शिक्षण-परिसराः भवन्तु इति उद्देश्येन देहली-सर्वकारेण ‘अभायान-कायाकल्पः’ आरब्धः अस्ति। अस्य विशेष-अभियानस्य अन्तर्गतं राजधानीस्थेषु विभिन्न-जनपदेषु चयनितेषु सर्वकारीय-विद्यालयेषु आधारभूत-संरचनायाः सुदृढीकरणाय विद्यार्थिभ्यः उत्तम-सुविधानां प्रदाने च व्यापक-स्तरे सुधार-कार्याणि क्रियमाणानि सन्ति।
मुख्यमन्त्री रविवासरे विज्ञप्तिं प्रसारयन्ती अवदत् यत् ‘अभियान-कायाकल्पः’ जनपद-प्रशासनस्य, शिक्षा-विभागस्य, निगम-सामाजिक-उत्तरदायित्व-योजनायाः अन्तर्गतं सहयोगं कुर्वन्तीनां संस्थानाम्, विभिन्न-सामाजिक-सङ्गठनानाम्, विपणि-सङ्घानां, स्थानीय-समुदायस्य च सहयोगेन अग्रे नीयते। सर्वकारीय-संसाधनैः सह समाजस्य सहभागितया विद्यालयेषु शीघ्रं सकारात्मक-परिवर्तनानि दृश्यन्ते।
‘अभियान-कायाकल्पस्य’ अन्तर्गतं देहल्याः विभिन्न-जनपदेषु सर्वकारीय-विद्यालयेषु शीघ्रं परिवर्तनानि दृश्यन्ते। उत्तर-जनपदे षट् सर्वकारीय-विद्यालयानां निरीक्षणानन्तरं द्वयोः विद्यालययोः चयनम् अभवत्। प्रायः १६.२० लक्ष-रूप्यक-व्ययेन शङ्कराचार्य-मार्गस्थिते विशेषावश्यकता-युक्त-बालकानां कृते सेन्सरी-उद्यानस्य नवीनीकरणं, आरओ-यन्त्रस्य, जल-शीतकस्य च स्थापना कृता। रूपनगर-स्थिते सर्वकारीय-विद्यालये विद्यार्थिनां प्रायोगिक-शिक्षां सुदृढीकर्तुं भौतिक-विज्ञान-प्रयोगशालायाः आधुनिकीकरणमपि कृतम्।
मुख्यमन्त्री अवदत् यत् दक्षिण-जनपदस्य रामानुजन-सर्वोदय-कन्या-विद्यालये प्रायः ४८.७३ लक्ष-रूप्यक-व्ययेन तथा सर्वोदय-को-एड-सीनियर-सेकेण्डरी-विद्यालये प्रायः ९८.५८ लक्ष-रूप्यक-व्ययेन व्यापक-सुधार-कार्याणि कृतानि। उभयोः विद्यालययोः शौचालयानां कायाकल्पः, स्वच्छतायन्त्राणां प्रतिस्थापनम्, भित्तीनां छदीनां च स्रावस्य तथा प्लास्टर-इत्यस्य पुनर्निर्माणं, सम्पूर्ण-भवनस्य उच्चगुणवत्तायुक्तेन मौसमरोधि-वर्णकेन रञ्जनं च कृतम्। तदतिरिक्तं परिसरस्य गलिकानां च स्वच्छता, सौन्दर्यीकरणम्, आधुनिक-जलशीतक-द्वयस्य स्थापना, विद्यालयस्य हरितीकरणार्थं पादपारोपणं च कृतम्।
सा अवदत् यत् पश्चिम-जनपदस्य मोहन-उद्यान-जनकपुरी-स्थितयोः सर्वकारीय-विद्यालययोः ‘मिशन-कायाकल्पस्य’ अन्तर्गतं व्यापक-आधारभूत-संरचना-सुधार-कार्याणि प्रचलन्ति। मोहन-उद्यान-विद्यालये प्रायः ७७.७१ लक्ष-रूप्यक-व्ययेन छदस्य मरम्मतिः, जलरोधनम्, पेयजल-क्षेत्रस्य नवीनीकरणम्, वर्षाजल-सञ्चयन-व्यवस्था, मलप्रवाह-रेखायाः, कर्मचारी-शौचालयानां च सुधारः तथा अन्यानि निर्माण-विद्युत-कार्याणि क्रियमाणानि सन्ति। जनकपुरी-स्थिते जीएसकेवी-विद्यालये प्रायः ३८.७७ लक्ष-रूप्यक-व्ययेन एमपी-सभागृहस्य जलरोधनम्, नूतन-आरओ-यन्त्रस्य, जलशीतकस्य च स्थापना, शौचालय-द्वाराणां प्रतिस्थापनम्, विद्युत-व्यवस्थायाः सुदृढीकरणं च क्रियते।
मुख्यमन्त्री अवदत् यत् उत्तर-पूर्व-जनपदस्य गोकलपुर-स्थिते सर्वकारीय-विद्यालये प्रायः ६.७० लक्ष-रूप्यक-व्ययेन तथा शाहदरा-स्थिते मणिबेन-पटेल-भारतीय-महिला-सर्वोदय-विद्यालये प्रायः २.९० लक्ष-रूप्यक-व्ययेन व्यापक-सुधार-कार्याणि कृतानि। उभयोः विद्यालययोः शौचालयानां नवीनीकरणं, गहन-स्वच्छता, स्वच्छतायन्त्राणां पुरातन-नलिकानां च प्रतिस्थापनम्, सीपेज-प्लास्टर-इत्येतयोः पुनर्निर्माणं, भवनानां उच्चगुणवत्तायुक्त-वर्णकेन रञ्जनं च कृतम्। तदतिरिक्तं परिसरस्य हरितीकरणार्थं पादपारोपणम्, पेयजल-स्थानानां स्वच्छता, नूतन-जलशीतकानां स्थापना, शाहदरा-विद्यालयस्य ग्रन्थालयाय नूतन-आसनानां व्यवस्था च कृता। विद्यार्थिनां प्रेरणार्थं शाहदरा-विद्यालये मणिबेन-पटेल-महोदयायाः तथा सरदार-वल्लभभाई-पटेलस्य चित्राण्यपि स्थापितानि, येन उभयोः विद्यालययोः वातावरणं विद्यार्थिनां कृते अधिकं स्वच्छं, सुरक्षितम् आकर्षकं च जातम्।
मुख्यमन्त्री अवदत् यत् बाह्य-उत्तर-जनपदस्य सावदा-घेवरा-कम्युनिटी-बॉयज-सीनियर-सेकेण्डरी-विद्यालये प्रायः अष्ट-लक्ष-रूप्यक-व्ययेन बहूनि कार्याणि सम्पन्नानि। विद्यालय-भवनानां पुनर्निर्माणं कृतम्, भग्न-प्लास्टर-इत्यस्य सुधारः कृतः, प्राथमिक-वरिष्ठ-विभागयोः रञ्जनं च सम्पन्नम्।
एतदतिरिक्तं विद्यालये आच्छादित-छायामण्डपः निर्मितः, स्पेस-प्रयोगशाला स्थापिता, आधारभूत-सुविधाश्च सुदृढीकृताः। अस्य सम्पूर्ण-प्रकल्पस्य सम्पादने मुण्डका-औद्योगिक-सङ्घः, जनपद-प्रशासनम्, उपमण्डल-मजिस्ट्रेट-कार्यालयस्य अधिकारिणश्च संयुक्तरूपेण सहयोगम् अकुर्वन्। जनपद-प्रशासनेन नियमित-निरीक्षणेन सतत-पर्यवेक्षणेन च कार्याणां गुणवत्ता समयबद्धता च सुनिश्चिता। एतानि सर्वाणि कार्याणि जनपद-प्रशासनस्य, शिक्षा-विभागस्य, लोकनिर्माण-विभागस्य, स्थानीय-अभिकरणानां, विद्यालय-प्रबन्धन-समितीनां च सहयोगेन सम्पन्नानि।
मुख्यमन्त्री अवदत् यत् ‘अभियान-कायाकल्पः’ केवलं रञ्जन-कार्यक्रमः नास्ति, अपितु सर्वकारीय-विद्यालयानां समग्र-रूपान्तरणस्य अभियानम् अस्ति। अस्य अन्तर्गतं विद्यालय-भवनानां मरम्मतिः, भित्तीनां रञ्जनं श्वेतलेपनं च, जीर्ण-शौचालयानां नवीनीकरणम्, शुद्ध-पेयजलार्थम् आरओ-यन्त्राणां जलशीतकानां च स्थापना, विज्ञान-प्रयोगशालानाम् आधुनिकीकरणम्, विशेषावश्यकतायुक्त-बालकानां कृते सुविधाविकासः, विद्यालय-परिसराणां सौन्दर्यीकरणम्, हरितीकरणम्, विद्यार्थिनां कृते सुरक्षित-सकारात्मक-वातावरणस्य निर्माणं च प्राथमिकतया क्रियमाणम् अस्ति।
Hindusthan Samachar / Divya Ranjan