राज्यपालः आर. एन. रवि: अवदत् — अद्यतनपत्रकाराः महर्षेः नारदस्य सत्यनिष्ठायाः, प्रज्ञायाः राष्ट्रधर्मस्य च प्रेरणां गृह्णन्तु
कोलकातानगरम्, ०५ जुलाईमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य प्रचारविभागस्य विश्वसंवादकेन्द्रेण शनिवासरे आयोजिते ''नारद-सम्मान-२०२६''-कार्यक्रमे पत्रकारितायाः भूमिका, राष्ट्रधर्मः, सत्यनिष्ठा तथा उत्तरदायिपूर्णः संवादः इत्यादिविषयेषु गम्भीरविमर्
संघ के कार्यक्रम में उपस्थित राज्यपाल आर एन रवि


कोलकातानगरम्, ०५ जुलाईमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य प्रचारविभागस्य विश्वसंवादकेन्द्रेण शनिवासरे आयोजिते 'नारद-सम्मान-२०२६'-कार्यक्रमे पत्रकारितायाः भूमिका, राष्ट्रधर्मः, सत्यनिष्ठा तथा उत्तरदायिपूर्णः संवादः इत्यादिविषयेषु गम्भीरविमर्शः अभवत्। अस्मिन् कार्यक्रमे पश्चिमबङ्गस्य राज्यपालः आर. एन. रवि: मुख्यातिथिरूपेण उपस्थितः आसीत्। अस्मिनवसरे राष्ट्रहितकेन्द्रितायाः मूल्याधारितायाश्च साहसिकपत्रकारितायाः कृते सप्तदश पत्रकाराः 'नारद-सम्मान-२०२६' इति सम्मानेन सम्मानिताः।

स्वसम्बोधने राज्यपालः महर्षिं नारदं स्मारयन् अवदत् यत् सः विश्वस्य प्रथमः संवाददाता अथवा समाचारप्रतिवेदकः इति मन्यते। तेन उक्तं यत् महर्षिः नारदः केवलं समाचारवाहकः नासीत्, अपितु सत्यस्य धर्मस्य लोककल्याणस्य च आधारेण संवादस्य प्रतीकः आसीत्। अद्यतनपत्रकाराणां कृते तस्य जीवनं प्रेरणास्रोतः अस्ति, यतः सः सर्वदा परिस्थितीनां गाम्भीर्यं सम्यगवगत्य यथासमयं सत्यं समाजस्य पुरतः प्रस्तुतवान्।

राज्यपालः अवदत् यत् पत्रकारिता केवलं घटनानां प्रस्तुतीकरणस्य माध्यमं नास्ति, अपितु समाजं राष्ट्रं च प्रति महत्त्वपूर्णम् उत्तरदायित्वमपि वहति। उत्तरदायिपूर्णपत्रकारितायाः अर्थः केवलं निर्भीकतया वक्तुं न, अपितु सत्यं प्रज्ञया, संवेदनशीलतया राष्ट्रहितं च मनसि निधाय प्रस्तोतुमिति। पत्रकारैः एतद् अवगन्तव्यं यत् का सूचना कस्मिन् समये, कस्मिन् सन्दर्भे, केन प्रकारेण च समाजस्य पुरतः प्रस्तोतव्या, येन समाजे जागरूकता वर्धेत राष्ट्रहितं च सुरक्षितं भवेत्।

तेन उक्तं यत् केवलं साहसमेव पत्रकारितायाः परिचायकः न भवितुमर्हति। यदि पत्रकारितायां विवेकं, नैतिकतां सत्यनिष्ठां राष्ट्रं प्रति उत्तरदायित्वं च न भविष्यति, तर्हि तस्याः उद्देश्यम् अपूर्ण एव भविष्यति। पत्रकारैः तथ्यस्य निष्पक्षपरीक्षणं कृत्वा तादृशी पत्रकारिता कर्तव्या या समाजे विश्वासं जनयेत् लोकतन्त्रं च सुदृढं कुर्यात्।

राज्यपालः भारतस्य वैश्विकस्थानस्यापि उल्लेखम् अकरोत्। तेन उक्तं यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वात् पूर्वं भारतं वैश्विकस्तरे तावद् गम्भीरतया न परिगण्यते स्म, किन्तु अधुना विश्वस्य प्रमुखनिर्णयेषु वैश्विकविषयेषु च भारतस्य महत्त्वपूर्णा भूमिका वर्तते। अधुना भारतं विश्वस्य प्रभावशालितमेषु सुदृढतमेषु च राष्ट्रेषु स्वकीयं विशिष्टं स्थानं स्थापितवान् इति तेन उक्तम्।

राष्ट्रीयसुरक्षायाः विषये भाषमाणः राज्यपालः अवदत् यत् पूर्वं पाकिस्तानदेश: भारतं निरन्तरं भेषयति स्म, किन्तु अधुना परिस्थितिः परिवर्तिता। पुलवामा-आतङ्कवादिघटनानन्तरं भारतेन बालाकोटे कृता कार्यवाही एतत् स्पष्टं कृतवती यत् राष्ट्रं स्वस्य सुरक्षा-स्वाभिमानयोः रक्षणार्थं निर्णायकानि पदानि ग्रहीतुं समर्थम् अस्ति। अधुना भारतस्य आत्मविश्वासः स्वाभिमानश्च पूर्वापेक्षया अधिकं सुदृढौ जातौ इति तेन उक्तम्।

राज्यपालः अवदत् यत् भारतेन दारिद्र्यसूचकाङ्कसहितेषु विविधक्षेत्रेषु उल्लेखनीया प्रगतिः कृता। कोरोना-महामार्याः कठिनकालेभ्यः आरभ्य वर्तमान-अन्ताराष्ट्रियसङ्कटपर्यन्तं, विशेषतः ईरान-अमेरिका-चिन्ताया: विषये, भारतेन धैर्येण, प्रज्ञया, सन्तुलितनेतृत्वेन च सर्वाः समस्या: सम्यक् समालम्बिताः। एतदेव सुदृढनेतृत्वस्य लक्षणम् अस्ति, येन राष्ट्रं निरन्तरं प्रगतेः मार्गे अग्रे गच्छति।

कार्यक्रमे उपस्थितैः पत्रकारैः, बुद्धिजीविभिः तथा विविधक्षेत्रसम्बद्धैः गणमान्यैश्च पत्रकारितायां नैतिकमूल्यानां, सत्य-निष्ठायाः राष्ट्रहितस्य च सर्वोच्चमहत्त्वं प्रतिपादितम्। राज्यपालः अवदत् यत् परिवर्तमानकाले पत्रकारिता केवलं सूचनाप्रदाने सीमिता न भवेत्, अपितु समाजस्य लोकतन्त्रस्य राष्ट्रस्य च प्रति स्वकर्तव्यं पूर्णनिष्ठया निर्वहेत्।

Hindusthan Samachar / Divya Ranjan