गुरुग्राम: राष्ट्रसेवायां समर्पितम्अवर्तत डा. श्यामा प्रसाद मुखर्जिनो जीवनम् : विनोदतावड़े
-गुरुग्राम भाजपा कार्यालये समाचरिता डा. श्यामा प्रसाद मुखर्जिनः 125 जयंती गुरुग्रामः, 05 जुलाईमासः (हि.स.)। डा. श्यामाप्रसादमुखर्जिनः १२५ तमा जयन्ती रविवासरे गुरुग्रामस्थिते भाजपाकार्यालये गुरुकमले भव्यतया आयोजिता। कार्यक्रमे राष्ट्रियमहामन्त्री
गुरुग्राम स्थित भाजपा कार्यालय में राष्ट्रीय महामंत्री विनोद तावड़े को स्मृति चिन्ह भेंट करतीं प्रदेश अध्यक्ष डा. अर्चना गुप्ता।


-गुरुग्राम भाजपा कार्यालये समाचरिता डा. श्यामा प्रसाद मुखर्जिनः 125 जयंती

गुरुग्रामः, 05 जुलाईमासः (हि.स.)।

डा. श्यामाप्रसादमुखर्जिनः १२५ तमा जयन्ती रविवासरे गुरुग्रामस्थिते भाजपाकार्यालये गुरुकमले भव्यतया आयोजिता। कार्यक्रमे राष्ट्रियमहामन्त्री विनोदतावडे तथा प्रदेशाध्यक्षा डा. अर्चनागुप्ता डा. मुखर्जिनः जीवनविषये प्रकाशं पातितवन्तौ। कार्यक्रमस्य अध्यक्षतां जिलाध्यक्षः सर्वप्रियत्यागी कृतवान्। इतः पूर्वं जिलाध्यक्षः सर्वप्रियत्यागी कार्यालये आगमनावसरे राष्ट्रियमहामन्त्रिणः विनोदतावडे तथा प्रदेशाध्यक्षायाः डा. अर्चनागुप्तायाः भव्यं स्वागतं कृतवान्।

स्वसम्बोधने राष्ट्रियमहामन्त्री राज्यसभासांसदः च विनोदतावडे उक्तवान् यत् भाजपायाः प्रत्येकः कार्यकर्ता दीपकवत् स्वयं तप्त्वा समाजस्य राष्ट्रस्य च जीवने प्रकाशं प्रसारयितुं सङ्कल्पं स्वीकृत्य कार्यं करोति। सः उक्तवान् यत् भारतीयजनसङ्घस्य संस्थापकाध्यक्षः डा. श्यामाप्रसादमुखर्जी जनसङ्घदलस्य निर्वाचनचिह्नरूपेण दीपकं चितवान् आसीत्, यतः दीपकः स्वयं प्रज्वलित्वा अन्येषां जीवने प्रकाशं प्रसारयति। एषा एव भावना भाजपायाः प्रत्येकस्य कार्यकर्तुः भवितव्या यत् सः स्वार्थात् उपरि उत्थाय निर्धनानां वञ्चितानां राष्ट्रस्य च कृते कार्यं कुर्यात्।

डा. मुखर्जी आत्मनिर्भरभारतस्य औद्योगिकाधारशिलां स्थापितवान् डा. अर्चनागुप्ता

भाजपाप्रदेशाध्यक्षा डा. अर्चनागुप्ता उक्तवती यत् स्वतन्त्रभारतस्य प्रथमौद्योगिकमन्त्रिरूपेण डा. श्यामाप्रसादमुखर्जी देशस्य औद्योगिकविकासस्य सुदृढाम् आधारशिलां स्थापितवान्। डा. श्यामाप्रसादमुखर्जी उद्योग रेलयान विमानन ऊर्जा गुरूद्योगादिक्षेत्राणां विकासाय नूतनां दिशां प्रदत्तवान्। तस्य कार्यकाले हिन्दुस्तान एयरक्राफ्ट फैक्ट्री दामोदरघाटीनिगमः तथा इस्पातसंयन्त्राणि इत्यादीनाम् अनेकासां महत्त्वपूर्णपरियोजनानाम् आरम्भः अभवत्, याभिः आधुनिकभारतस्य औद्योगिकसंरचना सुदृढा कृता।

डा. मुखर्जिनः विचारान् साकारं करोति सर्वकारः डा. सुधायादवः

केन्द्रीयसंसदीयमण्डलस्य सदस्या पूर्वसांसदा च डा. सुधायादवः उक्तवती यत् डा. मुखर्जिनः सम्पूर्णं जीवनं राष्ट्रवादाय भारतीयसंस्कृतये राष्ट्रियस्वाभिमानाय च समर्पितम् आसीत्। डा. यादवः उक्तवती यत् डा. मुखर्जी राष्ट्रहितेन सह कदापि समझौतां न कृतवान्। यदा तेन अनुभूतं यत् तत्कालीनः सर्वकारः राष्ट्रहितैः सह समझौतां करोति तदा सः केन्द्रीयमन्त्रिमण्डलात् त्यागपत्रं दत्त्वा सिद्धान्तेभ्यः प्राथमिकतां प्रदत्तवान्। सः एकस्मिन् देशे द्वे विधाने द्वे चिह्ने द्वौ प्रधानौ च न चलिष्यन्ति इति उद्घोषं कृत्वा स्वस्य सर्वोच्चं बलिदानं दत्तवान्।

जिलाध्यक्षः सर्वप्रियत्यागी राष्ट्रियमहामन्त्रिणः विनोदतावडे प्रदेशाध्यक्षायाः डा. अर्चनागुप्तायाः सहितं सर्वेषां वरिष्ठनेतॄणां स्वागतं अभिनन्दनं च कृतवान्। सः उक्तवान् यत् प्रत्येकः कार्यकर्ता डा. श्यामाप्रसादमुखर्जिनः जीवनस्य सङ्घर्षस्य विचारधारायाः च गम्भीरम् अध्ययनं कुर्यात्, यतः तस्य जीवनं राष्ट्रसेवायाः सिद्धान्तानां त्यागस्य च अनुपमम् उदाहरणम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani