Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०५ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य मार्गदर्शने सञ्चाल्यमाना निःशुल्क-आईएएस-पीसीएस-आवासीय-प्रशिक्षण-योजना यूनां मध्ये शीघ्रं लोकप्रियता प्राप्नोति। एतां योजनां प्रति वर्धमानस्य आकर्षणस्य अनुमानम् अनेनैव कर्तुं शक्यते यत् प्रदेशे पञ्जीकृतानां १०,१६७ अभ्यर्थिनां मध्ये ६,८४४ छात्राः छात्राश्च रविवासरे आयोजितायां प्रवेश-परीक्षायां सहभागिनः अभवन्। अर्थात् प्रायः ६७.३ प्रतिशताधिकानाम् अभ्यर्थिनाम् उपस्थितिः अभिलेखिता, या योजनां प्रति यूनां वर्धमानं विश्वासम् उत्साहं च प्रदर्शयति।
अष्टादश-मण्डलेषु नवविंशति-परीक्षा-केन्द्रेषु परीक्षा सम्पन्ना
समाज-कल्याण-विभागेन ५ जुलाईमासे २०२६ तमे वर्षे प्रदेशस्य अष्टादश-मण्डलेषु मण्डलीय-जनपदेषु स्थापितेषु नवविंशति-परीक्षा-केन्द्रेषु प्रवेश-परीक्षा आयोजिता। परीक्षा शान्तिपूर्णतया सम्पन्ना। परीक्षा-परिणामस्य प्रकाशनानन्तरं परामर्श-प्रक्रियया चयनिताभ्यर्थिनः विभिन्नेषु आवासीय-प्रशिक्षण-केन्द्रेषु प्रवेशं प्राप्स्यन्ति। नियमित-कक्षाः १ अगस्त २०२६ दिनाङ्कात् प्रारभिष्यन्ते, शैक्षणिक-सत्रं च ३१ मई २०२७ पर्यन्तं सञ्चाल्यते।
८६५ अभ्यर्थिभ्यः निःशुल्का आवासीय-सुविधा प्रदास्यते
प्रदेशस्य सप्त आवासीय-प्रशिक्षण-केन्द्रेषु समग्रतया ८६५ चयनित-छात्रेभ्यः छात्राभ्यश्च निःशुल्क-आवासीय-सुविधया सह प्रतियोगिता-परीक्षाणां प्रशिक्षणं प्रदास्यते। एतेषु २५ प्रतिशत-आसनानि तेषाम् अभ्यर्थिनां कृते आरक्षितानि सन्ति, ये लेटरल-एन्ट्री-व्यवस्थया प्रारम्भिक-परीक्षां उत्तीर्णवन्तः। चयनितेभ्यः छात्रेभ्यः निवासः, भोजनम्, पुस्तकानि, अध्ययन-सामग्री, अनुभवी-शिक्षकैः मार्गदर्शनं च सर्वथा निःशुल्कतया प्रदास्यते।
प्रशासनिक-सेवासु वञ्चित-वर्गस्य सहभागिता वर्धिष्यते
समाज-कल्याण-विभागस्य निदेशकः संजीव-सिंहः विज्ञप्तौ अवदत् यत् गुणवत्तायुक्त-शिक्षया, उत्तम-मार्गदर्शनेन च वञ्चित-वर्गस्य यूनां प्रशासनिक-सेवासु सहभागिता निरन्तरं वर्धमाना अस्ति। अनेन समाजे सकारात्मक-परिवर्तनाय अपि नूतना दिशा प्राप्यते। अस्याः योजनायाः उद्देश्यं प्रतिभासम्पन्नेभ्यः यूनेभ्यः समान-अवसरान् प्रदातुम् अस्ति, येन ते यूपीएससी तथा यूपीपीएससी इत्यादिषु प्रतिष्ठित-प्रतियोगिता-परीक्षासु सफलतां प्राप्तुं शक्नुयुः।
Hindusthan Samachar / Divya Ranjan