इजरायलदेशेन स्वीकृतम् : ईरानदेशेन सह युद्धकाले संयुक्त-अरब-अमीरातदेशे आयरन्-डोम् वायुरक्षा-प्रणाली स्थापिता आसीत्
तेहरानम्/यरूशलेम, ०५ जुलाईमासः (हि.स.)। पश्चिम-एशियायां सङ्घर्षानन्तरं शान्तिवार्तायाः कृते क्रियमाणेषु प्रयासेषु इजरायलदेशस्य वरिष्ठमन्त्रिणा प्रथमवारं सार्वजनिकरूपेण स्वीकृतं यत् ईरानदेशेन सह युद्धकाले संयुक्त-अरब-अमीरातदेशे इजरायलदेशस्य आयरन्-डो
मध्य इज़राइल में तैनात आयरन डोम मिसाइल बैटरी (फाइल फाेटाे)


तेहरानम्/यरूशलेम, ०५ जुलाईमासः (हि.स.)। पश्चिम-एशियायां सङ्घर्षानन्तरं शान्तिवार्तायाः कृते क्रियमाणेषु प्रयासेषु इजरायलदेशस्य वरिष्ठमन्त्रिणा प्रथमवारं सार्वजनिकरूपेण स्वीकृतं यत् ईरानदेशेन सह युद्धकाले संयुक्त-अरब-अमीरातदेशे इजरायलदेशस्य आयरन्-डोम् इति वायुरक्षा-प्रणाली स्थापिता आसीत्। अनेन वक्तव्येन उभयदेशयोः मध्ये सुरक्षासहकार्यसम्बद्धाः चर्चाः अधिकं तीव्राः अभवन्।

ईरानदेशस्य सर्वकारीय-समाचार-माध्यमेन प्रेस-टीवी तथा अन्यैः समाचार-माध्यमैः प्रकाशितानां वार्तानाम् अनुसारम् इजरायलदेशस्य परिवहनमन्त्री मिरी-रेगेवसेनायाः रेडियो-केन्द्राय गाली-त्साहल प्रदत्ते साक्षात्कारे अवदत् यत् बैलिस्टिक-प्रक्षेपास्त्र-भयस्य प्रतिकाराय संयुक्त-अरब-अमीरातदेशाय इजरायलदेशस्य पूर्णं समर्थनम् अस्ति। तया उक्तं यत् संयुक्त-अरब-अमीरातदेशेन प्रक्षेपास्त्र-भयस्य गाम्भीर्यं ज्ञात्वा इजरायलदेशेन सह रक्षासहकार्यं वर्धितम्।

वार्तासु उक्तं यत् अस्य पूर्वम् अमेरिकादेशीय-माध्यमैरपि इजरायलीय-स्रोतांसि उद्धृत्य प्रकाशितं यत् ईरानदेशेन सह युद्धस्य प्रारम्भे एव इजरायलदेशेन संयुक्त-अरब-अमीरातदेशे आयरन्-डोम्-प्रणाल्या सह तस्याः सञ्चालनाय सैनिकाः प्रेषिताः आसन्। एकस्याः वार्तायाः अनुसारम् एषः निर्णयः संयुक्त-अरब-अमीरातदेशस्य राष्ट्रपतिः शेख-मोहम्मद-बिन-जायेद: तथा इजरायलदेशस्य प्रधानमन्त्री बेञ्जामिन-नेतन्याहू इत्येतयोः मध्ये सम्पन्नायाः चर्चायाः अनन्तरं गृहीतः।

वार्तासु एतदपि दावा कृतम् यत् अमेरिकादेशेन इजरायलदेशेन च ईरानदेशस्य विरुद्धं सञ्चालितस्य सैन्य-अभियानस्य समये खाडी-प्रदेशस्य अनेकदेशानां भूमेः उपयोगः कृतः। तस्य प्रत्युत्तरेण ईरानदेशेन प्रदेशे विद्यमानेषु अमेरिकादेशस्य सैनिक-स्थलेषु तथा अन्येषु सैन्य-लक्ष्येषु प्रक्षेपास्त्रैः ड्रोन-यानैश्च आक्रमणं कृतम्।

ईरानदेशेन पूर्वमेव स्पष्टं घोषितं यत् ये देशाः तस्य विरुद्धं कस्याञ्चित् सैन्य-कार्यवाह्यां सहयोगं करिष्यन्ति, तान् सः प्रत्यक्षरूपेण उत्तरदायिनः मन्यते। अस्यैव क्रमस्य अन्तर्गतं तेहरानेन बहरीनदेशात्, सऊदी-अरबदेशात्, कतरदेशात्, संयुक्त-अरब-अमीरातदेशात् तथा जॉर्डनदेशात् कथितरूपेण क्षतिपूर्तेः अपि याचना कृता।

Hindusthan Samachar / Divya Ranjan