Enter your Email Address to subscribe to our newsletters

नवदेहली, ०५ जुलाईमासः (हि.स.)। भारतं अस्मिन् सप्ताहे स्विट्जरलैण्डदेशस्य जेनेवानगरे आयोजितस्य उपभोक्तृसंरक्षण-अधिनियम-नीतिविषयक-विशेषज्ञाणाम् अन्तस्सर्वकारीय-समूहस्य नवमस्य सत्रस्य अध्यक्षतां करिष्यति। एषः कार्यक्रमः ०६ तः ०८ जुलाईपर्यन्तं जेनेवानगरस्थिते पैलेस-डेस-नेशन्स-भवने आयोज्यते।
उपभोक्तृकार्य-खाद्य-सार्वजनिक-वितरण-मन्त्रालयेन रविवासरे प्रकाशिते वक्तव्ये उक्तं यत् एतत् सत्रं सदस्य-राष्ट्राणि, अन्ताराष्ट्रिय-सङ्घटनानि, उपभोक्तृसंरक्षण-प्राधिकरणानि, शिक्षाविदः तथा अन्यान् सम्बद्धपक्षान् एकत्र आनयित्वा उपभोक्तृसंरक्षणक्षेत्रे उद्भवन्तीनां समस्याणां विषये विचारविमर्शस्य मञ्चं प्रदास्यति।
उपभोक्तृकार्यविभागस्य सचिवा निधि-खरे षष्ठतः अष्टम-जुलाईपर्यन्तं प्रवर्तमानानां त्रिदिवसीयानां चर्चानाम् अध्यक्षतां करिष्यति तथा वैश्विक-प्राथमिकतासु सदस्य-राष्ट्राणां मध्ये विचारविमर्शस्य सञ्चालनं करिष्यति।
मन्त्रालयस्य अनुसारम् कार्यसूच्यां उपभोक्तृ-सूच जोना-शिक्षा, स्थायि-उपभोगः, वैश्विक-विपणेषु उपभोक्तृसंरक्षण-अधिनियमानां प्रवर्तनम्, सीमा-पार-उपभोक्तृ-विवादानां च विषये चर्चा अन्तर्भवति।
मन्त्रालयेन उक्तं यत् संयुक्तराष्ट्रसङ्घस्य उपभोक्तृसंरक्षण-निर्देशिकानाम् अधीनं स्थापितः अयं अन्तर-सर्वकारीय-विशेषज्ञ-समूहः उपभोक्तृसंरक्षण-अधिनियम-नीतिविषये संवाद-सहकार्ययोः प्रमुख: अन्ताराष्ट्रिय-मञ्च: अस्ति।
उल्लेखनीयम् अस्ति यत् गत-चतुर्दश-मासेषु राष्ट्रिय-उपभोक्तृ-सहायतारेखया षट्त्रिंशत्-क्षेत्रेषु ९१.७७ कोटि-रूप्यकाधिक-धनराशेः प्रत्यावर्तनस्य सुविधा प्रदत्ता। अस्मिन् १.४७ लक्षाधिकाः धन-प्रत्यावर्तन-सम्बद्धाः सूचना: न्यायालयीय-प्रक्रियाम् आरभ्यते पूर्वमेव समाधानं प्राप्तवन्त्यः। विभागेन कृत्रिमबुद्धिमत्ता-सक्षमेन ई-जागृति इति डिजिटल-माध्यमेन उपभोक्तृ-विवाद-समाधान-व्यवस्था अपि सुदृढीकृता।
Hindusthan Samachar / Divya Ranjan