Enter your Email Address to subscribe to our newsletters


लखनऊनगरम्, ०५ जुलाईमासः (हि.स.)। भारतीय-जनता-पक्षस्य प्रदेशाध्यक्षः पङ्कज-चौधरी रविवासरे राष्ट्र-प्रेरणा-स्थले आयोजिते शक्ति-केन्द्र-संयोजक-सम्मेलने सम्बोधनं कुर्वन् अवदत् यत् एकतः अस्माकं समीपे विकासस्य स्पष्टा दृष्टिः अस्ति, अपरतः विपक्षः परिवारवादं, जातिवादं, तुष्टीकरणं च प्रोत्साहयति। तेन उक्तं यत् २०१२ तः २०१७ पर्यन्तं उत्तरप्रदेशे दस्यू-राज्यम् आसीत्। “एक-जनपद एक माफिया” इति स्थितिः विद्यमाना आसीत्। विशिष्ट-धर्मसमुदायाय सर्वप्रकारस्य शिथिलता प्रदीयते स्म, मार्गाः जीर्णाः आसन्, विधि-व्यवस्था अपि अत्यन्तं दुर्बला आसीत्। विकासस्य नाम्ना केवलं कतिपयानां परिवाराणामेव विकासः अभवत्। एताभ्यः समस्याभ्यः मुक्तिं प्राप्तुं प्रदेशस्य जनतया २०१७ तमे वर्षे दस्यून् परित्यज्य “गङ्गा-समर्थकान्” निर्वाचितवन्तः, एतस्मिन् समयेऽपि तथैव करिष्यन्ति।
चौधरी अवदत् यत् भारतीय-जनता-पक्षे कार्यकर्तारः एव सर्वोपरि सन्ति तथा शक्ति-केन्द्राणि अस्य सङ्गठनस्य मेरुदण्डरूपाणि सन्ति। तेन उक्तं यत् अस्माकं विचारधारायाः राजनैतिक-संघर्षस्य च वास्तविकाः सेनानायकाः शक्ति-केन्द्र-संयोजकाः एव सन्ति। २०२७ तमवर्षस्य निर्वाचने शक्ति-केन्द्र-संयोजकानां अग्रणी भूमिका भविष्यति। अद्य अस्य राष्ट्र-प्रेरणा-स्थलस्य पवित्रां प्रेरणाम् आत्मसात्कृत्य राष्ट्रियाध्यक्षस्य मार्गदर्शनेन वयं सर्वे सङ्कल्पं कुर्मः यत् केन्द्रीय-नेतृत्वस्य मार्गदर्शने कार्यं कुर्वन्तः अथक-परिश्रमेण २०२७ तमे वर्षे न केवलं २०१७ तथा २०२२ तमयोः इतिहासं पुनरावर्तयिष्यामः, अपितु नूतनमपि इतिहासं रचयिष्यामः।
प्रदेशाध्यक्षः अवदत् यत् एतत् प्रेरणा-स्थलं राष्ट्रस्य त्रिभ्यः महानुभावेभ्यः—डॉ. श्यामाप्रसाद-मुखर्जी, पण्डित-दीनदयाल-उपाध्याय तथा पूर्व-प्रधानमन्त्री अटल-बिहारी-वाजपेयी इत्येतेभ्य: समर्पितम् अस्ति। एतेषां त्रयाणामेव महनीयानां व्यक्तित्वानां प्रयासैः भारतीय-जनता-पक्षः संवर्धितः, दृढा वैचारिकी आधारशिला च प्राप्ता। अस्य प्रेरणा-स्थलस्य लोकार्पणं गतवर्षस्य २५ दिसम्बर-दिनाङ्के प्रधानमन्त्रिणा नरेन्द्र-मोदिना कृतम्। तेन गत-द्वादश-वर्षेषु एतेषां महापुरुषाणां विचारधाराः व्यवहारभूमौ साकाराः कृताः।
चौधरी अवदत् यत् एतत् अस्माकं परमं सौभाग्यं यत् अस्मिन् प्रेरणा-स्थले विश्वस्य बृहत्तमस्य राजनैतिक-पक्षस्य राष्ट्रियाध्यक्षात् आदरणीयात् नितिन-नवीन-महोदयात् मार्गदर्शनं प्राप्यते। तस्य मार्गदर्शनं भविष्ये अस्मभ्यं दिशां ऊर्जां च प्रदास्यति। तेन उक्तं यत् वर्तमानकाले भारतीय-जनता-पक्षः प्रधानमन्त्रिणः नरेन्द्र-मोदिन:, गृहमन्त्रिणः अमित-शाहस्य, राष्ट्रियाध्यक्षस्य नितिन-नवीनस्य च मार्गदर्शनेन निरन्तरं प्रगतिपथे अग्रे गच्छति। एतेनैव पक्षः विश्वस्य बृहत्तमः राजनैतिक-पक्षः अभवत्।
Hindusthan Samachar / Divya Ranjan