Enter your Email Address to subscribe to our newsletters

श्रीसीतारामप्रभोः अत्यन्तिककृपया प्रायः पञ्चशताब्दीपरिमितः भीषणः संघर्षः समाप्तिमगमत्। साधुसन्तानां महात्मनां च प्रखररामभक्तानाम् अनवरतप्रयत्नैः बलिदानैश्च श्रीअयोध्याधाम्नि श्रीरामजन्मभूमेः पवित्रस्थाने भगवान् रामललायाः भव्यदिव्यमन्दिरस्य निर्माणम् अभवत्। प्रभोः प्राणप्रतिष्ठा सम्पन्ना, ध्वजारोहणपर्यन्तं सर्वाणि कार्याणि सोत्साहं सम्पन्नानि। रामभक्तानां कृते एषः अत्यन्तमानन्ददायकः महोत्सवः आसीत्।
एतस्मिन् मङ्गलमये वातावरणे अस्मिन् मासि अयोध्यामन्दिरे घटिताभिः अविश्वसनीयाभिः अर्थापहारघटनाभिः रामभक्तानां हृदयानि विदीर्णानि अभवन्। कोटिशः श्रद्धालुभिः अत्यन्तश्रद्धया रामललायाः हुण्डिकायां समर्पितस्य नगदधनस्य तथा रजतसुवर्णाभरणादिचढावस्य गणनाकाले केचन जनाः चौर्यं कृत्वा जघन्यं महापापम् अकुर्वन्। एषः चढावस्तेयस्य क्रमः विगतेषु अनेकेषु दिनेषु प्रवर्तमानः आसीदिति अपि प्रकाशमागतम्। एतत् सर्वेषां रामभक्तानां कृते अत्यन्तदुःखदायकः भीषणप्रहारः अभवत्। अनेन वयं अत्यन्तम् आहताः, दुःखिताः, लज्जिताश्च स्मः। श्रीमद्भागवतस्य पूर्वनिर्धारितां कथां सम्पूर्य अद्य, ०५ जुलाई-दिने, अहं श्रीअयोध्यां प्राप्नोमि। श्रीरामजन्मभूमि-तीर्थक्षेत्र-न्यासस्य कोषाध्यक्षरूपेण ममेदं विनम्रनिवेदनं सर्वेषां रामभक्तानां कृते समर्पितम्—
१) कोषाध्यक्षस्य दायित्वरूपेण कोषे निक्षिप्तायाः राशेः आरम्भात् अद्यपर्यन्तं लेखापरीक्षितम् आयव्ययविवरणं सुरक्षितम् अस्ति, यत् अधिकृतैः व्यक्तिभिः कदापि परीक्षितुं शक्यते।
२) कोषाध्यक्षरूपेण आयव्ययलेखस्य रक्षणं मम कर्तव्यम् अस्ति। अहं निरन्तरं प्रवासे भवामि, अतः अस्माकं पुणेनगरस्थिताः चार्टर्ड-अकाउंटेण्ट्-सहयोगिनः प्रतिमासस्य अन्तिमेषु चतुर्षु पञ्चसु वा दिवसेषु अयोध्यां समागत्य आयव्ययस्य परीक्षणं कुर्वन्ति, न्यासस्य कार्यालयीयसहयोगिभ्यः आवश्यकान् निर्देशान् अपि ददति। तेषामेव विश्वासेन अहं लेखाविषये निश्चिन्तः भवामि।
३) राममन्दिरस्य सर्वः व्ययः प्रत्यक्षं धनागारमार्गेण एव क्रियते। अहं अधिकृतः हस्ताक्षरकर्ता नास्मि। अतः तत्र मम हस्ताक्षरस्य उपयोगो नास्ति। अस्माकं समीपे धनाहरणपुस्तिका अपि नास्ति। सर्वाणि दानानि नगदरूपेण न भवन्ति, प्रत्यक्षं धनागारमार्गेण एव भवन्ति।
४) रामभक्तैः हुण्डिकायां समर्पितस्य दांस्य यत्र गणना क्रियते, तेन क्षेत्रेण मम आरम्भात् एव कश्चन सम्बन्धो नासीत्। मम निवासः पुणेनगरे अस्ति। कथानिमित्तं निरन्तरं प्रवासः भवति। दानगणना प्रतिदिनस्य नित्यकार्यं भवति। तत् कार्यं आरम्भात् एव स्थानिकन्यासिबान्धवैः परिपालितम्। तस्य गणनाप्रक्रियासम्बद्धः संयुक्तदिशानिर्देशः भारतीय-स्टेट-बैंक-इत्यनेन सह तैरेव निर्मितः। सः मया अस्मिन् मासे दृष्टः।
५) सिन्धीसमाजेन भक्तिपूर्वकं समर्पितानां द्विशतकिलोग्रामपरिमितानां रजतशिलानां प्राप्तिः मूल्यवद्धातुपञ्जिकायां सम्यगङ्किता अस्ति। ताः शुद्धरजतशिलारूपेण निर्माय भारतीय-स्टेट-बैङ्क-इत्यस्य अयोध्याशाखायाः लॉकरमध्ये सुरक्षिताः स्थापिताः सन्ति। एतस्य सम्पूर्णं विवरणं विश्वसिन्धीसेवासङ्गमस्य अन्ताराष्ट्रियाध्यक्षाय डॉ.राजू व्ही. मनमानी-महोदयाय ०१ जुलाई २०२६ दिनाङ्कितेन पत्रेण सधन्यवादं प्रेषितम्।
६) न्यासिसदस्यत्वस्य आरम्भात् अद्यपर्यन्तम् अहं स्वयम् एकस्मादपि जनात् मन्दिरार्थं नगदराशिं वस्तुरूपसाक्षात्कारं वा न स्वीकृतवान्। (अत्र द्वावपवादौ स्तः— मम दिवङ्गता ज्येष्ठभगिनी ११,००० रूप्यकाणि दत्तवती, तथा श्रीमती नीलम गो-हे-महोदया पुणेनगरे एककिलोग्रामपरिमितां रजतशिलां समर्पितवती। उभाभ्यां तत्क्षणमेव पंजिका प्रेषिता।) एतदतिरिक्तं धनाहरणं विना अहं किमपि न स्वीकृतवान्।
७) अहं प्रायः प्रतिमासं मासार्धानन्तरं वा न्यासकार्यार्थम् अयोध्यां समागच्छामि। मम विमानयात्रायाः अन्यप्रवासस्य वा व्ययरूपेण अद्यपर्यन्तं न्यासात् एकमपि रूप्यकं न स्वीकृतम्। प्रभोः श्रीरामस्य निरपेक्षसेवारूपेण एतत्कार्यं कर्तुं मम परमधन्यता अनुभूयते।
८) चौर्यं कियत् अभवत्, कदा अभवत्, कथम् अभवत्— एतदेव अन्वेषणस्य विषयः अस्ति। एषा जिज्ञासा गम्भीरतया भवितव्या। अन्वेषणसंस्थायां विश्वासः करणीयः। न्यायालयः स्वकर्तव्यं करिष्यति। विशेषान्वेषणदलस्य आरक्षक-विभागस्य च उपरि अस्माकं पूर्णविश्वासः अस्ति। दोषिणः न पलायिष्यन्ते। सर्वैः अन्वेषणे न्यायव्यवस्थायां च पूर्णविश्वासः धारयितव्यः।
९) न वयं कस्यचित् पक्षे, न च कस्यचित् विरोधे। वयं सत्यस्य पक्षे स्थिताः। अस्माकम् आग्रहः अस्ति यत् आरक्षक-अन्वेषणसंस्था दोषिणः गृहीत्वा तान् यथोचितदण्डेन दण्डयेत्।
१०) न्यासिपदस्य अथवा कोषाध्यक्षपदस्य प्राप्तये मया कदापि प्रयासः न कृतः। प्रभोः श्रीरामस्य सेवा कस्यापि रूपे कर्तुं मम परमधन्यता परम-आनन्दश्च अनुभूयते। प्रभुकृपया सर्वेषां मङ्गलं भवतु— इत्येव मम सततप्रार्थना।
अस्माकं दृढविश्वासः अस्ति यत् भगवत: श्रीरामस्य कृपया सत्यं शीघ्रमेव प्रकाशं गमिष्यति। संशयस्य मेघाः अपगमिष्यन्ति, अपराधानामन्धकारः निवर्तिष्यते, भविष्ये पूर्णसावधानता सतर्कता च अवश्यमवलम्बिता भविष्यति। अस्माकं रामललायाः मन्दिरं विश्वे आदर्शतमं मन्दिरं भवेत्— एष एव अस्माकं प्रयत्नः भविष्यति। श्रीरामभक्तेः धारा अखण्डा प्रवहति इति अस्माकं कामना। सनातनधर्मस्य मन्दिरस्य च कीर्तिं नाशयितुं ये प्रयत्नाः क्रियन्ते, तान् भगवान् कदापि सफलान् न करिष्यति। रामराज्यस्य स्थापनापर्यन्तम् अस्माभिः निरन्तरं साधना कर्तव्या।
Hindusthan Samachar / Divya Ranjan