Enter your Email Address to subscribe to our newsletters



लखनऊनगरम्, ०५ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः भारतीय-जनता-पक्षस्य राष्ट्रियाध्यक्षस्य राज्यसभासदस्यस्य च नितिन-नवीनस्य उपस्थितौ रविवासरे राष्ट्र-प्रेरणा-स्थले आयोजिते अवध-क्षेत्रस्य शक्ति-केन्द्र-संयोजक-सम्मेलने सम्बोधनम् अकरोत्। मुख्यमन्त्री विपक्षि-दलान् लक्ष्यीकृत्य अवदत् यत् भूमि-जिहाद-इत्यस्य, प्रेम-जिहाद-इत्यस्य, ष्ठिवन-जिहाद-इत्यस्य च समर्थनं कुर्वतां जनानाम् आस्थायाः न, अपितु मतसञ्चयस्यैव चिन्ता अस्ति। तेन उक्तं यत् एतेषां स्वकीया का अपि विचारधारा नास्ति। भारतीय-जनता-पक्षस्य विरोधं कुर्वन्तः ते भारतस्य विरोधमपि स्वदैनिक-जीवनचर्यायाः अङ्गं कृतवन्तः। यदा ते बाबरी-नमूनाया: समर्थनं कुर्वन्ति तदा तेषाम् आस्था न बाध्यते। भारतस्य आस्थां पीडयितुं ते कदापि प्रहारं कर्तुं न प्रमादं कुर्वन्ति।
मुख्यमन्त्री समाजवादी-पक्षं लक्ष्यीकृत्य अवदत् यत् २०१७ तमवर्षात् पूर्ववर्तिन्यः सर्वकाराः दस्यून् पोषयन्ति स्म। लुण्ठनार्थं प्रत्येक-जनपदे स्वकीयैः अनुचरैः भुषूण्डि-विस्फोटकादीनां निर्माणं कारयन्ति स्म। वयं तु राष्ट्रस्य सुरक्षार्थं लखनऊ-नगरे ब्रह्मोस-प्रक्षेपास्त्रस्य निर्माणं कुर्मः। अस्माकं कृते राष्ट्रसुरक्षा महत्त्वपूर्णा, तेषां कृते तु लुण्ठनतन्त्रस्य सुदृढीकरणमेव महत्त्वपूर्णम् आसीत्।
मुख्यमन्त्री अवदत् यत् शक्ति-केन्द्रं सुदृढं भवेत् चेत् पश्चिम-बङ्गालवत् विजयप्राप्तौ कापि कठिनता न भविष्यति। एषा विजयः डॉ.श्यामाप्रसाद-मुखर्जी-महोदयस्य स्वप्नानां साकारतायाः विजयः अस्ति। यः पश्चिम-बङ्गालः कदाचित् अवैधप्रवेशस्य अराजकतायाश्च केन्द्रम् आसीत्, तत्र भारतीय-जनता-पक्षस्य असंख्यैः कार्यकर्तृभिः बलिदानं दत्तम्। तत्र बहुमतेन भारतीय-जनता-पक्षस्य सर्वकारस्य निर्माणम् एतत् दर्शयति यत् यदि शक्ति-केन्द्रं सुदृढं भवति तर्हि सर्वम् अस्माकं हस्ते भवति।
योगी-आदित्यनाथः अवदत् यत् विकासस्य, सुरक्षायाः, सुशासनस्य च आदर्शेन सह द्वि-इञ्जिन-सर्वकारः यूनः, महिलाः, कृषकान्, निर्धनान् च निरन्तरं सर्वकारीय-योजनानां लाभं प्रापयति। विपक्षि-दलानां एषैव चिन्ता अस्ति यत् ये निर्धनाः, महिलाः, कृषकाः, युवानः च पूर्वं जाति-धर्मयोः नाम्ना विभाजिताः आसन्, तान् अधुना द्वि-इञ्जिन-सर्वकारः स्वेन सह संयोजयति। विपक्षि-पक्षा: स्वविभाजन-राजनीतेः विफलतायाः दोषं भारतस्य आस्थायाः उपरि आरोपयन्तः तस्याः उपरि प्रहारं कुर्वन्ति।
मुख्यमन्त्री भीषण-ग्रीष्मेऽपि समागतान् कार्यकर्तॄन् अभिनन्दितवान्। तेन उक्तं यत् भारतीय-जनता-पक्षस्य कार्यकर्तारः सर्वासु अनुकूल-प्रतिकूल-परिस्थितिषु कार्यं कर्तुं समर्थाः सन्ति। अस्मिन् भीषणे ग्रीष्मेऽपि राष्ट्रियाध्यक्षः निरन्तरं भ्रमणं कुर्वन् कार्यकर्तृभिः सह मिलति। सः कार्यकर्तृभ्यः अवदत् यत् उत्तरप्रदेशे सर्वकारः भवतामेव अस्ति। भवतां हितानां, मूल्यानां, सम्मानस्य च विरुद्धम् आचरणं कर्तुं कश्चन न शक्नोति।
Hindusthan Samachar / Divya Ranjan