Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 जुलाईमासः (हि.स.)। अखिलभारतीयायुर्विज्ञानसंस्थानेन एम्स इति संस्थया पञ्चाशदधिकेषु विषयेषु षष्ट्यधिकचतुःशतं सङ्ख्याकानां संकायपदानां चयनपरिणामाः घोषिताः। चयनप्रक्रियायां प्रथमवारं सुरक्षितायाः ब्लॉकचेन इति अङ्कीयप्रौद्योगिक्याः उपयोगः कृतः, येन सम्पूर्णप्रक्रियायां गोपनीयता, पारदर्शिता, अभिलेखानां विश्वसनीयता च सुनिश्चिताः भवेयुः।
संस्थानस्य अनुसारं ब्लॉकचेनाधारितायाः अङ्कीयप्रणाल्याः प्रयोगेण चयनप्रक्रिया अधिका सुरक्षिता निष्पक्षा च कृता। एषा प्रौद्योगिकी दत्तांशेषु कस्यापि प्रकारस्य छेडछाडस्य सम्भावनां न्यूनीकरोति तथा चयनप्रक्रियायां पारदर्शितावर्धने सहायिका भवति।
सोमवासरे प्रकाशितायां विज्ञप्तौ उक्तं यत् एम्स तथा केन्द्रीयसशस्त्रपुलिसबलायुर्विज्ञानसंस्थानपरिसरे पञ्चाशदधिकेषु विषयेषु सहायकाचार्यपदात् आरभ्य आचार्यपदपर्यन्तं षष्ट्यधिकचतुःशताधिकानां रिक्तसंकायपदानां कृते सम्पन्नायाः नियुक्तिप्रक्रियायाः परिणामाः घोषिताः।
एम्स संस्थाने पञ्चषष्ट्यधिकद्विशतं पदानां तथा एम्स केन्द्रीयसशस्त्रपुलिसबलायुर्विज्ञानसंस्थानपरिसरे नवनवत्यधिकशतं पदानां कृते द्विशताधिकत्रिसहस्रं प्रत्याशिभिः आवेदनानि प्रस्तुतानि आसन्।
षण्मासपर्यन्तं प्रचलितायामस्यां सम्पूर्णप्रक्रियायां गोपनीयतां पारदर्शितां च निर्वोढुं ब्लॉकचेन अङ्कीयप्रौद्योगिक्याः उपयोगः कृतः। प्रक्रियायाः पूर्णनिष्ठां सुनिश्चितुं प्राप्ताङ्काः एकवारिकगुप्तसङ्केतस्य प्रयोगेण अङ्कीयरूपेण सुरक्षिताः बद्धाश्च आसन्।
सङ्गणकीयतन्त्रेण एतेषां प्राप्ताङ्कानां पूर्वनिर्धारितस्य गणनाविधेः च उपयोगं कृत्वा अन्तिमा योग्यतासूची निर्मिता। समानाङ्कस्थितेः समाधानं विहाय सम्पूर्णप्रक्रियायां मानवीयहस्तक्षेपस्य कापि भूमिका नासीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani