नितिन नवीनस्य राजनीतिकयात्रायां प्रधानमंत्री सहकृतवान् संदेशं, कथितवान्- तदीयसरलता सरलता च प्रत्येकं भाजपादलस्य कार्यकर्त्रे गौरवम्
नव दिल्ली, 06 जुलाईमासः (हि.स.)। आम आदमी पार्टी इति दलस्य संयोजकेन अरविन्दकेजरीवालेन भारतीयजनतापार्टी इति दलस्य अध्यक्षे नितिननवीने कृते आक्रमणस्य उत्तरं प्रधानमन्त्री नरेन्द्रमोदी एकां सामाजिकमाध्यमीयां सामग्रीं प्रसार्य अददात्। सः नितिननवीनस्य
भाजपा के राष्ट्रीय अध्यक्ष नितिन नवीन (फाइल फोटो)


नव दिल्ली, 06 जुलाईमासः (हि.स.)।

आम आदमी पार्टी इति दलस्य संयोजकेन अरविन्दकेजरीवालेन भारतीयजनतापार्टी इति दलस्य अध्यक्षे नितिननवीने कृते आक्रमणस्य उत्तरं प्रधानमन्त्री नरेन्द्रमोदी एकां सामाजिकमाध्यमीयां सामग्रीं प्रसार्य अददात्। सः नितिननवीनस्य महाविद्यालयीयसहपाठिना पीयूषपद्माकरेण लिखितानि संस्मरणानि प्रसार्य अवदत् यत् एषा सादगी सरलता च प्रत्येकस्य भारतीयजनतापार्टीकार्यकर्तुः कृते गौरवस्य विषयः अस्ति।

नितिननवीनस्य सहपाठी पीयूषपद्माकरः १९९८ तमस्य वर्षस्य दिवसान् स्मरन् अवदत् यत् विधायकस्य पुत्रः सन्नपि नितिननवीनः कथं सङ्घर्षं कृतवान्। सः अलिखत् यत् एषा कथा १९९८ तमात् वर्षात् आरभते। अहं नितिनश्च उभौ दिल्लीनगरे एव पठावः स्म। उभाभ्यां द्वादशीकक्षायाः अध्ययनं पूर्णं कृतम्। सः सीएसकेएम इति विद्यालये पठति स्म अहं च केन्द्रीयविद्यालये पठामि स्म। नितिनस्य पिता विधायकः आसीत् किन्तु सः मां बहु मन्यते स्म। मम पिता नवीनस्य पिता च बहुवर्षेभ्यः मित्रे आस्ताम्।

१९९८ तमस्य वर्षस्य मई जूनमासयोः अहं नितिनश्च एकस्मिन् एव कक्षे सह निवसावः स्म। द्वादशीकक्षाम् उत्तीर्य आवां दिल्लीनगरस्य विभिन्नेषु महाविद्यालयेषु प्रवेशप्राप्तेः स्पर्धायां संलग्नौ अभवाव। नितिनः विधायकस्य पुत्रः आसीत् किन्तु तस्मिन् लेशमात्रमपि अहङ्कारः नासीत्। मध्याह्नभोजने आवां विंशतिरूप्यकमूल्यां भोजनस्थालीं परस्परं विभज्य खादावः स्म येन दशरूप्यकाणि रक्षितुं शक्येरन्। आवां डीटीसी लोकयानेन गच्छावः स्म येन त्रिचक्रिकायानस्य भाटकं रक्षितुं शक्येत। भाटकयानं स्वीकरवाव इति वचनं नितिनस्य मुखात् कदापि न निर्गतम्। तस्मिन् काले भाटकयानस्य अर्थः पञ्चाशद्रूप्यकाधिकः व्ययः आसीत्।

यदि अस्माकं षट् सप्त वा मित्राणि आगच्छन्ति स्म तर्हि आवां चिन्तयावः स्म यत् अद्य भोजनस्थाली कथम् आदेष्टव्या येन न्यूनः व्ययः भवेत्। तस्मिन्नपि समये नितिनः कदापि कस्मैचित् प्रदर्शनार्थं ज्ञापनार्थं वा न अवदत् यत् सः विधायकस्य पुत्रः अस्ति।

पीयूषः महाविद्यालयीयदिनेषु निवासस्थानग्रहणसम्बद्धाम् एकां घटनां स्मरन् अवदत् यत् नितिननवीनसहिताः चत्वारः मित्राणि दिल्लीनगरस्य आईपी एक्सटेन्शन इति क्षेत्रस्य बहुमञ्जिलभवने निवसितुम् इच्छन्ति स्म किन्तु तत्र ते गृहं प्राप्तुं न शक्तवन्तः।

सः अवदत् यत् दिल्लीनगरस्य सम्पत्तिव्यवहारकर्त्ता यदा ज्ञातवान् यत् भाविनः किरायेदारस्य पिता बिहारराज्यस्य राजधानी पटनानगरस्य विधायकः अस्ति तदा सः महर्घाणि निवासगृहाणि दर्शयितुम् आरब्धवान्। पश्चात् नितिनः एव अवदत् यत् अस्माकं मासिकव्ययसीमा द्विसहस्ररूप्यकाणि अस्ति। पिता इतो अधिकं धनं न दास्यति। निवासः भोजनं महाविद्यालयगमनं च सर्वं द्विसहस्ररूप्यकेषु एव करणीयम्। तदनन्तरं बहुमञ्जिलावासभवने निवासस्य विचारः त्यक्तव्यः अभवत्।

पश्चिमविनोदनगरस्य मण्डावलीक्षेत्रस्य अन्तर्वर्तिन्यां वीथ्यां वर्तमानः भारतीयजनतापार्टी अध्यक्षः नितिननवीनः स्वैः त्रिभिः मित्रैः सह निवसितुम् आरब्धवान्। सेवकं गृहसहायिकां वा नियोजयितुं धनं नासीत्। मित्रद्वयं प्रातःकाले प्रातराशं निर्माति स्म अन्ये द्वे मित्रे पात्राणि प्रक्षालयतः स्म। ते मार्जनं भूमिप्रक्षालनं च कुर्वन्ति स्म। प्रारम्भे अहं नितिनश्च एकत्र कार्यकर्तव्ये नियुक्तौ अभवाव। आवां मिलित्वा उच्छिष्टपात्राण्यपि प्रक्षालयावः स्म। मार्जनमपि कुर्वावः स्म। भूमिप्रक्षालनमपि कुर्वावः स्म। ततः शीघ्रं सज्जौ भूत्वा द्वे लोकयाने परिवर्त्य महाविद्यालयं प्राप्नुवावः स्म।

नितिनः तस्मिन्नपि काले चतुर्षु मित्रेषु सर्वाधिकम् अनुशासितः मिलनसारश्च आसीत्। विवादाः अस्माकं भवन्ति स्म किन्तु तेषां समाधानं नितिनः करोति स्म।

---------------

Hindusthan Samachar / Dheeraj Maithani