Enter your Email Address to subscribe to our newsletters

भोपालम्, ०६ जुलाईमासः (हि.स.)। भारतीयसेनया अद्य सोमवासरे मध्यप्रदेशस्य राजधानी भोपालस्य बृहत्तडागस्थिते खानूग्रामस्य सेलिङ्-नोड-स्थले वार्षिकव्याख्यानस्य व्यावहारिक-प्रदर्शनाभ्यासस्य च ‘एक्स्-जलवृद्धि-व्यवस्था’ इत्यस्य आयोजनं क्रियते। अस्य वार्षिकाभ्यासस्य मुख्योद्देश्यं जलवृद्धि-शिथिलता-अभियानानां सञ्चालनस्य व्यावहारिकं प्रदर्शनं तथा वर्षाकालीन-आपदाभ्यः निवारणाय सिद्धतायाः सुदृढीकरणं च अस्ति।
जनसम्पर्काधिकारिणी अवन्तिका-जायसवाल: अवदत् यत् एषः कार्यक्रमः भारतीयसेनायाः ३-ईएमई-केन्द्रस्य ४-टेक्-प्रशिक्षण-बटालियन-इत्यस्य तत्त्वावधाने सम्पन्नः भविष्यति। अस्मिन् सैन्याभ्यासे सेनायाः विविधाः एककाः, आपदाप्रबन्धने संलग्नाः नागरिक-अभिकरणानि च सहभागित्वं करिष्यन्ति।
अभ्यासस्य समये राष्ट्रीय-आपदा-प्रतिक्रिया-बलम्, राज्य-आपदा-प्रतिक्रिया-बलम्, आपदा-प्रबन्धन-संस्थानम्, राज्य-आपदा-प्रबन्धन-प्राधिकरणम्, होमगार्ड्स तथा राज्यप्रशासनस्य प्रतिनिधयः उपस्थिताः भूत्वा संयुक्त-राहत-उद्धार-रणनीतीनां प्रदर्शनं करिष्यन्ति। अनेन समन्विताभ्यासेन सङ्कटकाले विविधविभागानां मध्ये परस्पर-समन्वयः अधिकः प्रभावी भविष्यति।
Hindusthan Samachar / Divya Ranjan