रायपुरे मुख्यमन्त्री साय: अद्य ११२ कोटिरूप्यकाधिकमूल्यानां विकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति
रायपुरम्, ०६ जुलाईमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे रायपुर-जनपदस्य समोदा-क्षेत्रे ११२ कोटिरूप्यकाधिक-मूल्यानां विकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति। एतेषु २१ कोटि: ६७ लक्षरूप्यक-मूल्यानां ६७ कार्याणां लोकार
मुख्यमंत्री विष्णु देव साय


रायपुरम्, ०६ जुलाईमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे रायपुर-जनपदस्य समोदा-क्षेत्रे ११२ कोटिरूप्यकाधिक-मूल्यानां विकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति। एतेषु २१ कोटि: ६७ लक्षरूप्यक-मूल्यानां ६७ कार्याणां लोकार्पणं तथा ९० कोटि ३४ लक्षरूप्यक-मूल्यानां २९ निर्माणकार्याणां भूमिपूजनं समाविष्टम् अस्ति।

उपमुख्यमन्त्री तथा नगरीय-प्रशासन-लोकनिर्माणमन्त्री अरुणसावः कार्यक्रमस्य अध्यक्षतां करिष्यति। वन-पर्यावरणमन्त्री तथा रायपुर-जनपदस्य प्रभारीमन्त्री केदारकश्यपः, स्वास्थ्यमन्त्री श्यामबिहारीजायसवालः, राजस्वमन्त्री टङ्करामवर्मा, तकनीकी-शिक्षा-कौशल-विकास-रोजगारमन्त्री गुरुखुशवन्तसाहेबः तथा सांसदः बृजमोहनअग्रवालः विशिष्टातिथिरूपेण कार्यक्रमे सहभागिनः भविष्यन्ति।

मुख्यमन्त्री विष्णुदेवसायः आरङ्ग-क्षेत्रस्य ग्रामीण-नगरीय-प्रदेशेषु लोकनिर्माण-विभागस्य ९ कोटि: ४३ लक्षरूप्यक-मूल्यानां त्रीणि कार्याणि, ग्रामीण-यान्त्रिकी-सेवायाः ७९ लक्षरूप्यक-मूल्यानि पञ्च कार्याणि, समोदा-नगरपञ्चायतस्य ६ कोटि: ६७ लक्षरूप्यक-मूल्यानि विंशति-कार्याणि तथा आरङ्ग-नगरपालिकायाः ४ कोटि ७८ लक्षरूप्यक-मूल्यानि ३९ कार्याणि लोकार्पयिष्यति।

तथा च सः लोकनिर्माणविभागस्य ६१ कोटि: ११ लक्षरूप्यक-मूल्यानाम् अष्ट निर्माणकार्याणाम्, ग्रामीण-यान्त्रिकी-सेवायाः २ कोटि ५४ लक्षरूप्यक-मूल्यानाम् एकादश कार्याणाम्, समोदा-नगरपञ्चायतस्य ८ कोटि: ७० लक्षरूप्यक-मूल्यानां नव कार्याणां च भूमिपूजनं करिष्यति। स्वास्थ्यविभागेन नवा-रायपुरस्य सेक्टर-१७ स्थिते कोटरा-भाठा-क्षेत्रे १८ कोटिरूप्यकैः निर्मीयमाणस्य शतशय्यात्मक-चिकित्सालयस्य भूमिपूजनमपि तेन विधास्यते।

Hindusthan Samachar / Divya Ranjan