Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 06 जुलाईमासः (हि.स.)।
ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी महान् राष्ट्रवादीचिन्तकः प्रख्यातः शिक्षाविद् भारतीयजनसङ्घस्य संस्थापकश्च डा श्यामाप्रसादमुखर्जी इत्यस्य जयन्त्यवसरे तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्।
सामाजिकमाध्यमेषु प्रसारिते स्वसन्देशे मुख्यमन्त्री अवदत् यत् डा श्यामाप्रसादमुखर्जिनः आदर्शाः त्यागः राष्ट्रं प्रति समर्पणभावना च सदैव समाजस्य कृते प्रेरणास्रोतः भविष्यन्ति।
मुख्यमन्त्री स्वसन्देशे अलिखत् महान् राष्ट्रवादीचिन्तकः विशिष्टः शिक्षाविद् भारतीयजनसङ्घस्य संस्थापकश्च डा श्यामाप्रसादमुखर्जी इत्यस्य जयन्त्यवसरे तस्मै श्रद्धापूर्वकं नमनम्। तस्य जीवनस्य आदर्शाः त्यागः बलिदानस्य उदाहरणं च सदैव अस्माकं कृते स्मरणीयं भविष्यति।
मुख्यमन्त्री अवदत् यत् डा मुखर्जिनः राष्ट्रनिर्माणे योगदानं तस्य सिद्धान्ताश्च आगामिनीभ्यः पीढीभ्यः देशभक्तेः सेवायाः समर्पणस्य च प्रेरणां निरन्तरं दास्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani