मुख्यमन्त्रिण: योगी-आदित्यनाथस्य सप्तम-जुलाई-दिनाङ्के प्रतापगढ़-जनपदस्य भ्रमणम्, विकास-परियोजनानां लोकार्पण-शिलान्यासौ जनसभां च सम्बोधयिष्यति
प्रतापगढ़ः, ०६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः सप्तम-जुलाई-दिनाङ्के प्रतापगढ़-जनपदस्य भ्रमणं करिष्यति। सः अत्र जी.आई.सी.क्रीडाङ्गणे जनसभां सम्बोधयिष्यति, विकास-परियोजनानां कोटिशः रूप्यकाणां लोकार्पणं शिलान्यासं च करिष
प्रतापगढ़ में मुख्यमंत्री योगी आदित्यनाथ आगमन मंगलवार को


प्रतापगढ़ः, ०६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः सप्तम-जुलाई-दिनाङ्के प्रतापगढ़-जनपदस्य भ्रमणं करिष्यति। सः अत्र जी.आई.सी.क्रीडाङ्गणे जनसभां सम्बोधयिष्यति, विकास-परियोजनानां कोटिशः रूप्यकाणां लोकार्पणं शिलान्यासं च करिष्यति। तस्य प्रस्तावित-भ्रमणं प्रति जनपद-प्रशासनं व्यापक-सज्जासु निरतम् अस्ति।

मुख्यमन्त्रिणः प्रस्तावित-कार्यक्रमस्य विषये जनपदाधिकारी अभिषेक-पाण्डेयः अवदत् यत् निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री प्रातः ९:५५ वादने लखनऊ-नगरस्य लामार्ट-हेलिपदात् राजकीय-हेलिकॉप्टरविमानेन प्रस्थास्यति तथा १०:३५ वादने प्रतापगढ़-आरक्षक-पङ्क्तेः हेलिपदं प्राप्स्यति। ततः सः १०:४० वादने वाहनद्वारा जी.आई.सी.क्रीडाङ्गणं गमिष्यति तथा १०:४५ वादने तत्र आगत्य जनपदस्य द्वयोः विधानसभाक्षेत्रयोः सम्बद्धानां विविध-विकास-परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति, विशाल-जनसभां च सम्बोधयिष्यति। एषः कार्यक्रमः १०:४५ वादनात् ११:४५ वादनपर्यन्तं प्रस्तावितः अस्ति।

जनसभायाः अनन्तरं मुख्यमन्त्री ११:४५ वादने जी.आई.सी.क्रीडाङ्गणात् वाहनद्वारा पुनः आरक्षक-पङ्क्तेः हेलिपदं गमिष्यति तथा ११:५० वादने राजकीय-हेलिकॉप्टरविमानेन सुल्तानपुरं प्रति प्रस्थास्यति, यत्र सः १२:१० वादने प्राप्स्यति। अस्य प्रस्तावित-भ्रमणस्य कृते सर्वाः व्यवस्थाः शीघ्रतया क्रियमाणाः सन्ति।

यातायात-व्यवस्थायां परिवर्तनम्

आरक्षक-अधीक्षकः दीपक-भूकरः अवदत् यत् मुख्यमन्त्रिणः प्रस्तावित-भ्रमणस्य कारणात् सप्तम-जुलाई-दिनाङ्के मार्ग-परिवर्तन-व्यवस्था प्रवर्तिष्यते। प्रातः ६ वादनात् रात्रौ १० वादनपर्यन्तं एषा व्यवस्था प्रभावी भविष्यति। अस्मिन् काले प्रतापगढ़-नगरे सर्वेषां गुरु-वाहनानां प्रवेशः पूर्णतया निषिद्धः भविष्यति।

अपर-आरक्षक-अधीक्षकः आलोक-कुमारः, अपर-आरक्षक-अधीक्षकः (पश्चिम-दिक्) बृजनन्दन-रायः, नगर-क्षेत्राधिकारी आशुतोष-मिश्रः तथा यातायात-क्षेत्राधिकारी अनिल-कुमार-रायस्य नेतृत्वे निर्मित-मार्ग-परिवर्तन-योजनानुसारं विविध-जनपदेभ्यः आगच्छतां गच्छतां च गुरु-वाहनानां कृते वैकल्पिक-मार्गाः निर्धारिताः सन्ति। सुल्तानपुरात् प्रयागराजं, रायबरेलीं, वाराणसीं च प्रति गच्छन्तः गुरु-वाहनाः मदाफरपुर-मोड़, पट्टी-बाईपास, उड़ैयाडीह, जामताली तथा रानीगञ्ज-मार्गेण प्रेषिताः भविष्यन्ति। लखनऊ-रायबरेलीतः वाराणसीं जौनपुरं च प्रति गम्यमानानि वाहनानि लालगञ्ज, लीलापुर, कोतवाली-देहात्, भूपियामऊ तथा रानीगञ्ज-मार्गस्य उपयोगं करिष्यन्ति।

अमेठीतः रायबरेलीं, लखनऊं, वाराणसीं प्रयागराजं च प्रति गच्छन्तः गुरु-वाहनाः लोहगपुर-बिहारगञ्ज-बाईपास तथा सुखपाल-नगर-बाईपास-मार्गेण प्रेषिताः भविष्यन्ति। एवं वाराणसीतः, जौनपुरतः, मच्छलीशहरतः च सुल्तानपुरं, अयोध्यां, अमेठीं, रायबरेलीं च प्रति गच्छतां गुरु-वाहनानामपि कृते रानीगञ्ज, जामताली, पृथ्वीगञ्ज, भूपियामऊ तथा लालगञ्ज-मार्गः वैकल्पिक-मार्गत्वेन निर्धारितः अस्ति।

केवलम् अत्यावश्यक-सेवाभिः सम्बद्धानि वाहनानि—यथा चिकित्सा-वाहनानि, अग्निशमन-वाहनानि, आरक्षक-वाहनानि, प्रशासनिक-वाहनानि तथा खाद्य-सामग्री-वहन-वाहनानि—एतस्मात् प्रतिबन्धात् मुक्तानि भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan