Enter your Email Address to subscribe to our newsletters

गोरखपुरम्, ०६ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारस्य मन्त्रिमण्डलस्य सभायां मुख्यमन्त्रिणः योगी-आदित्यनाथस्य अध्यक्षतायां गोरखपुर-नगर-निगमस्य ८०-कोटि-रूप्यकाणां म्यूनिसिपल-बॉण्ड-निर्गमनस्य प्रस्तावः अनुमोदितः। अस्य माध्यमेन सङ्कलितया धनराश्या गोलघर-स्थिते जलकल-परिसरे अत्याधुनिकस्य बहुस्तरीय-व्यावसायिक-सह-आवासीय-सङ्कुलस्य निर्माणं भविष्यति।
स्थानीय-निकायानां वित्तीय-स्वावलम्बनम् आत्मनिर्भरतां च सुदृढीकर्तुं राज्य-सर्वकारस्य सङ्कल्पस्य अन्तर्गतं एषः निर्णयः कृतः। मुख्यमन्त्रिणः दृष्टेः अनुरूपं परियोजनायाः कार्यान्वयनात् पूर्वं स्थानीय-प्रशासनेन प्रमुख-हितधारिभिः, निर्माणीभिः तथा न्यास-प्रतिनिधिभिः सह विस्तृतं मन्थनं कृत्वा सर्वसम्मतिः सुनिश्चिताभवत्। ततः अनन्तरं प्रस्तावः मन्त्रिमण्डलस्य समक्षं प्रस्तुतः।
महापौरः डॉ. मङ्गलेश-श्रीवास्तवः मुख्यमन्त्रिणे प्रस्तावस्य अनुमोदनाय कृतज्ञतां प्रकटितवान्। तेन उक्तं यत् शासनस्य निर्देशानुसारं परियोजनायाः कार्यम् अविलम्बेन आरभ्य निश्चित-समयसीमायां सम्पन्नं भविष्यति। एतत् सङ्कुलं महानगरस्य वाणिज्यिक-क्रियाकलापान् सुदृढीकरिष्यति तथा स्थानीय-स्तरे नूतन-रोजगार-अवसरान् अपि सृक्ष्यति।
नगरायुक्तः अजय-जैनः अवदत् यत् एषः प्रयासः उत्तरप्रदेशस्य नगरीय-निकायानां वित्तीय-लेखाङ्कन-व्यवस्थानां राष्ट्रीय-मानदण्डानुसारं सुदृढतायाः प्रमाणम् अस्ति। बॉण्ड-माध्यमेन निर्मीयमाणं सङ्कुलं नगर-निगमस्य कृते स्थिरं सुदृढं च राजस्वस्रोतः भविष्यति। तस्मात् प्राप्ता आयः भविष्ये जलापूर्ति-व्यवस्थायाः, आधुनिक-स्वच्छता-प्रणाल्याः तथा आधारभूत-जनसुविधानां सुदृढीकरणाय पुनर्निवेशिता भविष्यति। अनेन गोरखपुरं स्मार्ट-शून्य-अपशिष्ट-नगरस्य लक्ष्यं प्रति अग्रे गमिष्यति।
राज्य-सर्वकारस्य मते म्यूनिसिपल-बॉण्ड नगरीय-निकायानां कृते विपण्यां पारदर्शितया पूँजी-सङ्कलनस्य वित्तीय-सशक्तीकरणस्य च श्रेष्ठतमम् आधुनिकं साधनम् अस्ति। एतेन नगर-निगमाः केवलं पारम्परिक-शासकीय-अनुदानेषु न आश्रयिष्यन्ते, अपितु स्वीयया वित्तीय-विश्वसनीयतया तथा प्रशासनिक-पारदर्शितया स्वयमेव बृहत्-विकास-परियोजनानां नेतृत्वं कर्तुं समर्थाः भविष्यन्ति। म्यूनिसिपल-बॉण्ड-माध्यमेन प्रत्येकं १००-कोटि-रूप्यकाणां पूँजी-सङ्कलनस्य सापेक्षं १३-कोटि-रूप्यकाणां शासकीय-अनुदानमपि प्रदास्यते। बॉण्ड-निर्गमनार्थं नगर-निगमः सेबी-संस्थायाः २०१५ तमवर्षस्य म्यूनिसिपल-ऋण-प्रतिभूति-निर्गमन-सूचीकरण-विनियमान् अनुपालयन् अग्रिम-कार्यवाहीं करिष्यति।
जलकल-परिसरे निर्मीयमाणं बहुस्तरीय-सङ्कुलं बहूद्देशीयं भविष्यति। तत्र वर्तमान-आपणिकानां कृते स्थानं, निगम-कार्यालयानां कृते सुविधाः तथा स्टूडियो-आवास-एककानि अपि निर्मास्यन्ते। अस्य परियोजनायाः अनुमानितः व्ययः प्रायः २११-कोटि-रूप्यकाणि अस्ति, यस्मिन् ८०-कोटि-रूप्यकाणां व्यवस्था म्यूनिसिपल-बॉण्ड-माध्यमेन भविष्यति।
Hindusthan Samachar / Divya Ranjan