मुख्यमंत्रिणः परमपावन दलाई लामावर्याय जन्म दिवसे दत्ता शुभकामना
शिमला, 06 जुलाईमासः (हि.स.)। मुख्यमन्त्री ठाकुरसुखविन्द्रसिंहसुक्खुः तिब्बतीनां सर्वोच्चाध्यात्मिकगुरवे परमपावनदलाईलामावर्याय तस्य एकनवतितमे जन्मदिवसे अभिनन्दनं शुभकामनाश्च समर्पितवान्। ठाकुरसुखविन्द्रसिंहसुक्खुः अवदत् यत् दलाईलामावर्यः करुणायाः
दलाई लामा


शिमला, 06 जुलाईमासः (हि.स.)।

मुख्यमन्त्री ठाकुरसुखविन्द्रसिंहसुक्खुः तिब्बतीनां सर्वोच्चाध्यात्मिकगुरवे परमपावनदलाईलामावर्याय तस्य एकनवतितमे जन्मदिवसे अभिनन्दनं शुभकामनाश्च समर्पितवान्।

ठाकुरसुखविन्द्रसिंहसुक्खुः अवदत् यत् दलाईलामावर्यः करुणायाः अहिंसायाः शान्तेः मानवीयमूल्यानां च प्रतीकः अस्ति तथा तस्य सम्पूर्णं जीवनं मानवतां प्रेममार्गे चलितुं प्रेरयति। सः अवदत् यत् दलाईलामावर्यस्य उपस्थित्या हिमाचलप्रदेशः विश्वस्य आध्यात्मिकमानचित्रे विशिष्टां परिचितिं प्राप्तवान्।

मुख्यमन्त्री ईश्वरं प्रति तस्य उत्तमस्वास्थ्याय दीर्घायुषे च मङ्गलकामनां कृतवान् येन तस्य विचाराः शिक्षाश्च आगामिनीभ्यः संततिभ्यः निरन्तरं मार्गदर्शनं प्रदद्यु।

---------------

Hindusthan Samachar / Dheeraj Maithani