डाॅ.श्यामाप्रसाद-मुखर्जी-महोदयस्य १२५-तम-जयन्त्याम् दिल्ली-भाजपापक्षेण श्रद्धाञ्जलिरर्पिता
नवदेहली, ०६ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य दिल्ली-प्रदेश-एककेन सोमवासरे डाॅ.श्यामाप्रसाद-मुखर्जी-महोदयस्य १२५-तम-जयन्त्याः अवसरे तस्य प्रतिमास्थले पुष्पाञ्जलिमर्पयित्वा श्रद्धाञ्जलिरर्पिता तथा वृक्षारोपणमपि कृतम्। दिल्ली-भाजपा-अध्यक्षस्य हर्
दिल्ली भाजपा प्रदेश अध्यक्ष हर्ष मल्होत्रा


नवदेहली, ०६ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य दिल्ली-प्रदेश-एककेन सोमवासरे डाॅ.श्यामाप्रसाद-मुखर्जी-महोदयस्य १२५-तम-जयन्त्याः अवसरे तस्य प्रतिमास्थले पुष्पाञ्जलिमर्पयित्वा श्रद्धाञ्जलिरर्पिता तथा वृक्षारोपणमपि कृतम्।

दिल्ली-भाजपा-अध्यक्षस्य हर्षमल्होत्रस्य नेतृत्वे आयोजिते कार्यक्रमे सङ्गठन-महामन्त्री पवनराणा, दिल्ली-विधानसभाध्यक्षः विजेन्द्रगुप्तः, विधानसभा-उपाध्यक्षः मोहनसिंहबिष्टः, दिल्ली-सर्वकारस्य मन्त्री प्रवेश-साहिबसिंहः, सांसदः मनोजतिवारी, प्रदेश-महामन्त्री विष्णुमित्तलः, प्रदेश-उपाध्यक्षौ दिनेशप्रतापसिंहः, गजेन्द्रयादवः तथा योगितासिंहः, कोषाध्यक्षः सतीशगर्गः, पूर्वप्रदेशाध्यक्षौ वीरेन्द्रसचदेवः, डाॅ.हर्षवर्धनः तथा आदेशगुप्तः, पूर्वप्रभारी श्यामजाजू, कार्यालयमन्त्री बृजेशरायः तथा प्रदेशप्रवक्ता यासिरजिलानी इत्यादयः अनेके वरिष्ठपदाधिकारीणः कार्यकर्तारश्च उपस्थिताः आसन्।

हर्षमल्होत्रः अवदत् यत् डाॅ.श्यामाप्रसाद-मुखर्जी-महोदयः, तस्य आदर्शाश्च प्रत्येकस्य राष्ट्रवादिनः भारतीयस्य, विशेषतः भाजपाकार्यकर्तॄणां हृदये सदा जीविताः भविष्यन्ति। तेन उक्तं यत् डाॅ.मुखर्जी सत्तायाः अपेक्षया राष्ट्रहिताय अधिकं प्राधान्यम् अददात् तथा स्वप्राणबलिदानेन “एकं राष्ट्रम्, एकं विधानम्” इति सिद्धान्तं जनं जनं प्रति प्रसारितवान्।

तेन उक्तं यत् डाॅ.श्यामाप्रसाद-मुखर्जी-महोदयस्य जीवनं राष्ट्रसेवायै, अखण्डभारताय तथा राष्ट्रियैक्याय समर्पणस्य प्रेरणादायकम् उदाहरणम् अस्ति। तस्य विचाराः आदर्शाश्च अद्यापि देशस्य यूनां तथा कार्यकर्तॄन् राष्ट्रनिर्माणाय प्रेरयन्ति।

कार्यक्रमस्य अन्ते उपस्थितैः नेतृभिः कार्यकर्तृभिश्च पर्यावरणसंरक्षणस्य सन्देशं प्रदाय वृक्षारोपणमपि कृतम् तथा डाॅ.मुखर्जी-महोदयेन प्रदर्शिते मार्गे चलितुं पुनः सङ्कल्पः कृतः।

Hindusthan Samachar / Divya Ranjan