Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, ०६ जुलाईमासः (हि.स.)। दलाईलामाया: एकनवतितमे जन्मदिवसावसरे सोमवासरे लघु-शिमला-स्थिते तिब्बतीय-विद्यालय-परिसरे भव्य-समारोहस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे लोकनिर्माण-नगरीय-विकासमन्त्री विक्रमादित्यसिंहः मुख्यातिथिरूपेण उपस्थितः आसीत्। समारोहस्य प्रारम्भः सामूहिक-प्रार्थनया, दीप-प्रज्वलनेन तथा दलाईलामाया: चित्रे पारम्परिक-धार्मिकोपहार-समर्पणेन अभवत्। ततः जन्मदिवस-पीठिकां छित्त्वा तस्य दीर्घायुषः उत्तम-स्वास्थ्यस्य च कामना कृता।
स्वीय-सम्बोधने विक्रमादित्यसिंहः अवदत् यत् समाजे वर्धमानानि अपराधानि, महिलानां विरुद्धं हिंसा, यूनां मध्ये मादक-द्रव्य-सेवनस्य प्रवृत्तिः, सामाजिक-माध्यमानां दुरुपयोगश्च गम्भीर-चिन्तायाः विषयाः सन्ति। सः शिक्षकान् अभिभावकांश्च विद्यार्थिनः साइबर-जागरूकतायै, नैतिक-मूल्येषु, सम्यग्-असम्यग्विवेके च निरन्तरं जागरूकान् कर्तुम् आग्रहम् अकरोत्। सः अवदत् यत् विद्यार्थिनां मानसिक-स्वास्थ्यं व्यक्तित्व-विकासश्च शिक्षायाः अभिन्नाङ्गत्वेन स्वीकरणीयौ।
मन्त्री पर्यावरण-संरक्षणस्य विषये अपि बलं दत्त्वा अवदत् यत् विकासस्य प्रकृतेश्च मध्ये सन्तुलनस्य पालनं कालस्य आवश्यकता अस्ति। सः विद्यार्थिषु वृक्षारोपणे, वन-संरक्षणे तथा पारिस्थितिकी-जागरूकतायाः संवर्धनाय आह्वानम् अकरोत्।
विक्रमादित्यसिंहः अवदत् यत् दलाईलामाया: उपस्थित्या हिमाचलप्रदेशः, विशेषतः धर्मशाला, वैश्विक-परिचयं प्राप्तवान्। भारतेन दलाईलामाय आश्रयः प्रदत्तः मानवतायाः भारतीय-संस्कृतेः उदार-परम्परायाश्च प्रतीकः इति सः अवदत्। स्वस्य दिवङ्गत-पितुः, पूर्व-मुख्यमन्त्रिणः वीरभद्रसिंहस्य दलाईलामेन सह आत्मीय-सम्बन्धानामपि सः स्मरणम् अकरोत्।
कार्यक्रमे मुख्यातिथिना मेधाविनः विद्यार्थिनः सम्मानिताः, हेपेटाइटिस-बी परीक्षण-अभियानस्य शुभारम्भः कृतः, सांस्कृतिक-कार्यक्रमं प्रस्तुतवद्भ्यः दलेभ्यः एकत्रिंशत्-सहस्र-रूप्यकाणां प्रोत्साहन-राशिः घोषिता। समारोहे तिब्बतीय-समुदायस्य, विद्यार्थिनां, गणमान्य-जनानां तथा स्थानीय-जनानां बहुसंख्यया उपस्थितिः अभवत्।
Hindusthan Samachar / Divya Ranjan