Enter your Email Address to subscribe to our newsletters

कोलकाता, ०६ जुलाईमासः (हि.स.)। पश्चिमबङ्गस्य विपक्षनेता शुभेन्दु-अधिकारी भारतमातुः वीरसुतं, दूरदर्शिनं राजनेतारं प्रखरराष्ट्रवादिनं च डाॅ.श्यामा-प्रसाद-मुखर्जी-महोदयं तस्य १२५-तम-जन्मजयन्त्याः अवसरे विनम्र-श्रद्धाञ्जलिम् अर्पितवान्।
सोमवासरे एक्स-माध्यमे प्रकाशिते स्वसन्देशे शुभेन्दु-अधिकारी अवदत् यत् डाॅ.श्यामाप्रसाद-मुखर्जी-महोदयस्य राष्ट्रियैक्याय, राष्ट्रसेवायै तथा जनकल्याणाय समर्पणं सदा प्रेरणायाः स्रोतः भविष्यति। तेन उक्तं यत् डाॅ.मुखर्जी-महोदयस्य जीवनं देशभक्तेः, दूरदर्शिनः नेतृत्वस्य तथा राष्ट्रहिते निष्ठायाः प्रतीकम् अस्ति।
स्वसन्देशे शुभेन्दु-अधिकारी डाॅ.श्यामा-प्रसाद-मुखर्जी-महोदयस्य विचारान् आदर्शान् च स्मरन् अवदत् यत् तस्य योगदानम् अग्रिमवंशं राष्ट्रस्य एकतायै, अखण्डतायै तथा जनसेवायै च निरन्तरं प्रेरयिष्यति।
उल्लेखनीयं यत् डाॅ.श्यामाप्रसाद-मुखर्जी-महोदयस्य जन्मजयन्त्याः अवसरे समग्रे पश्चिमबङ्गे अनेकानां महत्त्वपूर्णकार्य-क्रमाणाम् आयोजनं कृतम् अस्ति, येषु शुभेन्दु-अधिकारिणः सहभागिता अपि भविष्यति।
Hindusthan Samachar / Divya Ranjan