Enter your Email Address to subscribe to our newsletters


वाराणसीनगरम्, ०६ जुलाईमास:। उत्तरप्रदेशस्थितस्य काशीहिन्दूविश्वविद्यालयस्य तथा गुर्जरविश्वविद्यालयस्य वैज्ञानिकानां संयुक्त-अनुसन्धानेन एतत् प्रकाशितम् यत् भारते, पाकिस्ताने तथा विश्वस्य विविधेषु देशेषु निवसन्तः सिन्धिजनाः अद्यापि समानया आनुवंशिक-पैतृकपरम्परया परस्परं सम्बद्धाः सन्ति। तेषां एषा परम्परा प्राचीनतायाः सिन्धुघाटीसभ्यतायाः कालपर्यन्तं प्रसरति।
इदम् महत्त्वपूर्णम् अनुसन्धानम् अन्ताराष्ट्रियविज्ञानपत्रिकायां ह्यूमन जेनेटिक्स इति नाम्नि प्रकाशितम्। अस्य अध्ययनस्य नेतृत्वं बीएचयू-स्थितायाः ज्ञान-प्रयोगशालायाः शोधकर्त्री चञ्चल-देवनानी, जीनवैज्ञानिकः प्रो. ज्ञानेश्वरचौबे, तथा गुर्जरविश्वविद्यालयस्य डा.खुशबू गौतम: एवं प्रो. राकेशरावल: च अकुर्वन्।
अध्ययनस्य अन्तर्गतं ११३ सिन्धिव्यक्तीनां प्रायः ७.३० लक्षं डीएनए-चिह्नानि विश्लेषितानि, तेषां च तुलना २००० अन्येषां व्यक्तीनाम् आनुवंशिकदत्तांशैः सह कृता। अध्ययनस्य निष्कर्षाः सूचयन्ति यत् भारते पाकिस्ताने च निवसन्तः सिन्धिजनाः केवलं सांस्कृतिक-भाषिकदृष्ट्या एव न, अपितु जीनोम-स्तरेऽपि प्रगाढतया सम्बद्धाः सन्ति। वैज्ञानिकभाषायाम् एषः समुदायः सिन्धी-डायस्पोरा इति कथ्यते, अर्थात् स्वमूलभूमेः विस्थापितः सन् अपि विश्वस्य विविधेषु भागेषु प्रसृतः समुदायः, यः स्वकीयम् आनुवंशिकपरिचयं प्रायः अक्षुण्णं रक्षितवान्।
अनुसन्धानकर्तृभिः आधुनिकसिन्धीनां डीएनए-दत्तांशस्य प्राचीनमानवावशेषैः सह तुलना कृता। तया ज्ञातं यत् तेषां जीनोम-इत्यस्य प्रायः ६०–६६ प्रतिशतभागः सिन्धुघाटीप्रदेशस्य प्राचीननिवासिभिः सम्बद्धः अस्ति। एतत् आनुवंशिकसंमिश्रणं प्रायः २५००–२९०० वर्षेभ्यः पूर्वम् अभवत्। अनेन ज्ञायते यत् सिन्धुप्रदेशस्य जनसमुदायः बहुकालपूर्वमेव स्वां विशिष्टाम् आनुवंशिकपरिचयं विकसितवान्, या अद्यापि संरक्षिता वर्तते।
सोमवासरे बीएचयू-वैज्ञानिकाः अवदन् यत् सिन्धुप्रदेशस्य सांस्कृतिक-निरन्तरतायाः जीवन्ततमं प्रतीकम् अज्रकम् इति प्रसिद्धं पारम्परिकं वस्त्रम् अस्ति। पारम्परिक-खण्डमुद्रणयुक्तं सूत्रवस्त्रमिदम् अद्यापि सिन्धीपरिचयस्य, सम्मानस्य, आतिथ्यस्य च प्रतीकं मन्यते। हडप्पा तथा मोहनजोदाडो इत्येतयोः प्राप्तायाः तथाकथितस्य “पुरोहितराजा” इति प्रतिमायाः त्रिपर्णीय-अलङ्कारः आधुनिक-अज्रक-वस्त्रस्य विन्यासैः सह उल्लेखनीयं साम्यं प्रदर्शयति, यत् सांस्कृतिकपरम्परायाः निरन्तरतां सूचयति।
१९४७ तमे वर्षे भारतविभाजनानन्तरं सिन्धुप्रान्तः पाकिस्तानदेशस्य भागः अभवत्। तस्य परिणामस्वरूपं बहुसंख्यकाः सिन्धी-हिन्दवः तथा सिक्खसमुदायस्य जनाः भारतमागताः, गुजराते, महाराष्ट्रे, राजस्थाने, मध्यप्रदेशे, दिल्लीप्रदेशे च अन्येषु राज्येषु न्यवसन्। तथापि अद्यावधि सिन्धीसमुदायस्य विषये व्यापकं जीनोम-विस्तृतम् अध्ययनं न कृतम्। अतः एषः शोधः अस्मिन् क्षेत्रे प्रथमः महत्त्वपूर्णः प्रयासः मन्यते।
राजस्थाने, गुजराते, महाराष्ट्रे, मध्यप्रदेशे, छत्तीसगढे, उत्तरप्रदेशे, तेलङ्गाणे च निवसतां सिन्धीनाम् आनुवंशिक-विश्लेषणेऽपि प्रायः समानं प्रतिरूपं दृष्टम्। अनेन स्पष्टं भवति यत् विभाजनानन्तरं विभिन्नेषु राज्येषु निवासं कृत्वापि तेषां मूल-आनुवंशिकसंरचना प्रायः अक्षुण्णैव अवर्तत।
अध्ययने भारतीय-पाकिस्तानी-सिन्धीनां मध्ये कश्चन महत्त्वपूर्णो भेदोऽपि प्रकाशितः। पाकिस्तानी-सिन्धिषु सजातीय-विवाहानां अथवा सम्बन्धि-विवाहानाम् स्तरः अपेक्षया अधिकः दृष्टः, यस्य कारणात् तेषां डीएनए-मध्ये समान-आनुवंशिकखण्डानां संख्या तथा दीर्घता अधिका अभवत्। अपरतः भारतीय-सिन्धिषु विभाजनानन्तरं विभिन्न-प्रदेशेषु निवासेन तथा समुदायस्य विविधेषु वर्गेषु वैवाहिकसम्बन्धैः आनुवंशिकवैविध्यं अपेक्षया अधिकं दृश्यते।
अध्ययनस्य प्रथमलेखिका चञ्चलदेवनानी उक्तवती यत् एषः शोधः स्पष्टतया सिद्धयति—भारते पाकिस्ताने च निवसन्तः सिन्धिजनाः अद्यापि समानया आनुवंशिक-पैतृकपरम्परया सम्बद्धाः सन्ति।
जीनवैज्ञानिकः प्रो. ज्ञानेश्वरचौबे अवदत् यत् सिन्धीसमुदायः यहूदिसमुदायवत् वैश्विकः प्रवासीसमुदायः अस्ति। भारत-विभाजनेन ते भिन्नदेशेषु विभक्ताः अभवन्, किन्तु तेषां डीएनए अद्यापि प्रायः पञ्चसहस्रवर्षप्राचीनतया सिन्धुघाटी-सभ्यतया सह तेषां प्रगाढसम्बन्धस्य प्रमाणं वहति। एषा तेषां समानायाः ऐतिहासिक-आनुवंशिकपैतृकपरम्परायाः महत्त्वपूर्णा साक्षी अस्ति।
Hindusthan Samachar / Divya Ranjan