राज्यपालः डॉ. हरिबाबू-कम्भम्पाटिः दलाईलामाय जन्मदिनस्य शुभकामनाः प्रयच्छत्
भुवनेश्वरम्, ०६ जुलाईमासः (हि.स.)। ओडिशा-राज्यस्य राज्यपालः डॉ. हरिबाबू-कम्भम्पाटिः परमपूज्याय दलाईलामाय तस्य जन्मदिनावसरे हार्दिक-शुभकामनाः अभिनन्दनानि च प्रादात्। सामाजिक-माध्यमस्य ''एक्स'' इत्यस्मिन् प्रकाशिते स्वसन्देशे राज्यपालः अवदत् यत् द
राज्यपाल डा हरिबाबू  कंभमपटी   फाइल फोटो


भुवनेश्वरम्, ०६ जुलाईमासः (हि.स.)। ओडिशा-राज्यस्य राज्यपालः डॉ. हरिबाबू-कम्भम्पाटिः परमपूज्याय दलाईलामाय तस्य जन्मदिनावसरे हार्दिक-शुभकामनाः अभिनन्दनानि च प्रादात्।

सामाजिक-माध्यमस्य 'एक्स' इत्यस्मिन् प्रकाशिते स्वसन्देशे राज्यपालः अवदत् यत् दलाईलामायाः करुणायाः, शान्तेः, प्रज्ञायाश्च अमरः सन्देशः विश्वस्य जनान् निरन्तरं प्रेरयति।

सः दलाईलामाय उत्तम-स्वास्थ्यस्य, सुखस्य, समृद्धेः, दीर्घायुषः च कामनाम् अकरोत्। सहैव मानवीय-मूल्यानां वैश्विक-शान्तेः च संवर्धने तस्य महनीय-योगदानस्य प्रशंसाम् अकरोत्।

Hindusthan Samachar / Divya Ranjan