Enter your Email Address to subscribe to our newsletters


नवदेहली, ०६ जुलाईमासः (हि.स.)। केन्द्रीय-वाणिज्य-उद्योगमन्त्री पीयूषगोयलः सोमवासरे अवदत् यत् प्रौद्योगिकी-आधारिता द्विभाषिकी प्रबन्धन-शिक्षा ग्रामीण-नगरीय-क्षेत्रयोः विद्यमानम् अन्तरं न्यूनीकर्तुं समर्था अस्ति। अनया प्रतिभाशालिनः छात्राः, ते कुत्रापि निवसन्तु अथवा कस्यापि सामाजिक-पार्श्वभूमेः भवन्तु, गुणवत्तायुतां शिक्षां प्राप्तुं शक्नुवन्ति।
केन्द्रीय-वाणिज्य-उद्योगमन्त्री इण्डियन-इन्स्टिट्यूट्-ऑफ्-मैनेजमेण्ट् उदयपुरस्य ऑनलाइन-द्विभाषिक-व्यावसाय-प्रबन्धन-स्नातक-कार्यक्रमस्य आभासीय-उद्घाटनावसरे एतद् उक्तवान्। स्वसम्बोधने सः एतं प्रयत्नं प्रौद्योगिक्याः माध्यमेन उच्चगुणवत्तायुक्त-प्रबन्धन-शिक्षायाः व्यापक-उपलब्धतां वर्धयितुं महत्त्वपूर्णं पदक्षेपम् इति निरूपितवान्। तेन उक्तं यत् अन्तर्जाल-द्विभाषिक-व्यावसाय-प्रबन्धन-स्नातक-कार्यक्रमः अद्वितीय: प्रयत्न: अस्ति। अयं कार्यक्रमः सरलया सुबोधया च भाषया प्रबन्धन-शिक्षां प्रदाय व्यापकं प्रभावं जनयितुं समर्थः भविष्यति। तेन पुनरुक्तं यत् प्रौद्योगिकी-आधारिता द्विभाषिकी प्रबन्धन-शिक्षा ग्रामीण-नगरीय-अन्तरं न्यूनीकर्तुं तथा गुणवत्तायुक्त-शिक्षायाः उपलब्धिं वर्धयितुं समर्था अस्ति।
केन्द्रीयमन्त्री अवदत् यत् हिन्दी-आङ्ग्ल-भाषयोः एतस्य कार्यक्रमस्य आरम्भेण समाजस्य विशालः वर्गः आईआईएम्-संस्थानानां शिक्षायाः विश्वसनीयतायाः गुणवत्तायाश्च लाभं प्राप्स्यति। तेन विश्वासः व्यक्त: यत् अयं स्नातक-कार्यक्रमः भारतीय-उद्योगस्य परिवर्तमान-आवश्यकतानां पूर्तिं कुर्वन् राष्ट्रस्य विकासे महत्त्वपूर्णं योगदानं दास्यति। तेन उक्तं यत् नवीनाः मुक्त-व्यापार-सन्धय: विनिर्माण-क्षेत्रस्य विकासाय नूतनां गतिं प्रददति तथा नवाचाराय प्राधान्यं ददति, येन भारतस्य यूनां कृते वैश्विक-अवसराः उद्घाट्यन्ते। अन्ते तेन छात्रान् प्रबन्धनस्य व्यावहारिक-अनुभवस्य प्राप्त्यर्थं निर्माणीनां, पत्तनानां तथा औद्योगिक-समूहानां प्रत्यक्ष-भ्रमणं कर्तुम् आहूतवान्।
Hindusthan Samachar / Divya Ranjan