Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 जुलाईमासः (हि.स.)।
राष्ट्रपतिः द्रौपदीमुर्मुः सोमवासरे राष्ट्रपतिभवने आयोजिते समारोहे षण्णां देशानां राजदूतेभ्यः उच्चायुक्तेभ्यश्च तेषां परिचयपत्राणि स्वीकृतवती।
राष्ट्रपतिभवनेन प्रकाशितविज्ञप्त्यनुसारं राष्ट्रपतिः मोजाम्बिकस्य उच्चायुक्तात् अरमाण्डोपेड्रोमुइआनेजूनियरतः निकारागुआदेशस्य राजदूत्याः नदेस्काइमारा कथबर्टकार्लसनतः सूरीनामदेशस्य राजदूत्याः हनीशाजयरामतः गैबोनदेशस्य उच्चायुक्तात् ऑरेलियनमार्सेलमिंट्सान्गुएमातः मङ्गोलियादेशस्य राजदूतात् डा उल्जीतलुव्सानजावतः तथा बहामासदेशस्य उच्चायुक्तात् पीटरनिकोलससाइमोनेटतः परिचयपत्राणि स्वीकृतवती।
परिचयपत्रप्रस्तुतेः एषा औपचारिकी प्रक्रिया भारतस्य सम्बन्धितदेशानां च मध्ये राजनयिकसम्बन्धानाम् अग्रे वर्धनाय नवनियुक्तराजनयिकेभ्यः भारते आधिकारिकरूपेण स्वकार्यभारग्रहणस्य मान्यताप्रदानाय च भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani