Enter your Email Address to subscribe to our newsletters

- हिंद महासागर क्षेत्रे भारतस्य निरीक्षण क्षमतायां लक्ष्यसाधनायां भविष्यति वृद्धिः
नव दिल्ली, 06 जुलाईमासः (हि.स.)।भारतीयनौसेनायाः सामुद्रिकनौसमूहे अन्यत् एकम् उन्नतं गुप्तगमनक्षमं युद्धपोतं महेन्द्रगिरिः सम्मिलितुं सज्जम् अस्ति। विशाखापत्तने जुलाईमासस्य एकादशदिनाङ्के महेन्द्रगिरिः तस्मिन् समये नौसेनायां सम्मिलितः भविष्यति यदा भारतस्य पूर्वीयसमुद्रतटस्य सामरिकं सामुद्रिकं च महत्त्वं निरन्तरं वर्धमानम् अस्ति। महेन्द्रगिरेः नौसेनायां सम्मिलनेन हिन्दमहासागरक्षेत्रे भारतस्य निरीक्षणक्षमतायां परिचालनविस्तारे च महती वृद्धिः भविष्यति।
नौसेनायाः कैप्टन विवेकमधवालः अवदत् यत् परियोजना सप्तदश ए वर्गस्य षष्ठं गुप्तगमनक्षमं युद्धपोतं महेन्द्रगिरिः केवलं पोतं नास्ति अपितु एतत् मेक इन इण्डिया इत्यस्य भावनायाः अस्माकं स्वदेशीयपोतनिर्माणशालानां यान्त्रिकाभियान्त्रिकीक्षमतानां च षट्सहस्रषट्शतसप्ततिटनभारात्मकं मूर्तरूपम् अस्ति। भारतीयनौसेनायाः युद्धपोताभिकल्पनविभागेन आन्तरिकरूपेण अभिकल्पितं मुम्बईनगरस्थे मझगांव डॉक शिपबिल्डर्स लिमिटेड इत्यत्र निर्मितं च एतत् युद्धपोतं पूर्ववर्तिनाम् अभिकल्पनानाम् अपेक्षया एकपीढीपर्यन्तम् उन्नतं पदक्षेपम् अस्ति। पञ्चसप्ततिप्रतिशताधिकस्वदेशीयसामग्रीयुक्तम् एतत् पोतं घरेलुऔद्योगिकपारिस्थितिकीतन्त्रस्य परिपक्वतां प्रकाशयति यत् अधुना द्विशताधिकेषु सूक्ष्मलघुमध्यमोद्यमेषु विस्तृतम् अस्ति।
संयुक्तडीजल अथवा गैसप्रणोदनसंयन्त्रेण सञ्चालितः महेन्द्रगिरिः उच्चगतिः उच्चसहनक्षमता इत्येताभ्यां बहुमुखीक्षमताभ्यां बहुआयामिकसामुद्रिकसञ्चालनाय च अभिकल्पितः अस्ति।
पोतस्य आयुधसमूहः विश्वस्तरीयः अस्ति यस्मिन् पराध्वनिकाः पृष्ठतः पृष्ठं प्रति प्रहारक्षमाः प्रक्षेपास्त्राणि मध्यमदूरीयाः पृष्ठतः आकाशं प्रति प्रहारक्षमाः प्रक्षेपास्त्राणि विशेषश्च पनडुब्बीप्रतिरोधीययुद्धसमूहः सम्मिलिताः सन्ति। एताः प्रणाल्यः अत्याधुनिकयुद्धप्रबन्धनप्रणाल्याः माध्यमेन सम्यक् एकीकृताः सन्ति येन चालकदलम् अत्यन्तसटीकतया संकटानां प्रतिकारं कर्तुं शक्नोति। गुप्तगमनक्षमस्य युद्धपोतस्य लचीला अभियानरूपरेखा तम् उच्चतीव्रतायुक्तसङ्घर्षात् आरभ्य मानवीयसहायतां आपदुद्धारकार्यं च यावत् विविधकार्याणां कृते आदर्शं करोति।
कैप्टन मधवालः अवदत् यत् अस्माकं नौसेना फारसस्य खाडीक्षेत्रं वा मलक्काजलडमरूमध्यं वा भवतु हिन्दमहासागरे निरन्तरं स्वीयाम् उपस्थितिं निर्वहति। यदा कदापि संकटम् आगच्छति तदा जननिष्कासनाभियानं वा मानवीयसहायताप्रदानं वा भवतु अस्माकं नौसेना सदैव अग्रभागे तिष्ठति। अस्माकं नौसेना भारतस्य मूल्यानां प्रतिबद्धतायाश्च प्रतीकम् अस्ति। आईएनएस महेन्द्रगिरेः नौसेनायां औपचारिकसमावेशेन अस्माकं नौसेनायाः शक्तिः मूल्यानि प्रतिबद्धता च अधिकं सुदृढानि भविष्यन्ति। अस्माभिः केवलं स्वकीयतटानां सुरक्षायामेव सीमितैः न भवितव्यम् अपितु महत्त्वपूर्णसामुद्रिकमार्गाणां सङ्कीर्णसामुद्रिकमार्गाणां डिजिटलमूलसंरचनायाश्च सुरक्षा अपि सुनिश्चितव्या।
भारतीयनौसेनया गतवर्षात् अद्यावधि द्वादश पोतानि एका पनडुब्बी एकं वायुयानस्क्वाड्रनं च सेवायां औपचारिकरूपेण सम्मिलितानि सन्ति। स्वकीयाभिः सुदृढाभिः युद्धक्षमताभिः सह महेन्द्रगिरिः भारतस्य वर्धमानायाः आत्मनिर्भरतायाः प्रतीकम् अस्ति। अस्मिन् पोते पञ्चसप्ततिप्रतिशताधिकं स्वदेशीयसामग्री अस्ति। अस्य युद्धमञ्चस्य निर्माणं समानप्रकारकाणाम् अन्येषां पोतानाम् अपेक्षया प्रायः पञ्चदशप्रतिशतं न्यूनसमये सम्पन्नम् अस्ति। पूर्वीघाटस्थितायाः भव्यायाः महेन्द्रगिरिपर्वतशृङ्खलायाः नाम्ना नामाङ्कितम् भारतीयनौसेनायाः एतत् युद्धपोतं महेन्द्रगिरिः वस्तुतः अद्वितीयम् अस्ति। अधुना एतत् विशिष्टां विरासतां निर्मातुं भारतस्य सामुद्रिकेतिहासे अन्यतमं गौरवपूर्णम् अध्यायं योजयितुं च सज्जम् अस्ति।
-----------
Hindusthan Samachar / Dheeraj Maithani