Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, ०६ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिन-नवीनः सोमवासरे द्विदिवसीययात्रायां जम्मूनगरम् आगमिष्यति। अस्य यात्राकाले सः अनेकाः सङ्गठनात्मकसभा: करिष्यति, पक्षनेतृभिः युवभि: च सह संवादं करिष्यति तथा प्रमुखधार्मिकस्थलेषु दर्शनं करिष्यति।
प्राप्तसूचनानुसारं जम्मूनगरम् आगमनानन्तरं पक्षकार्यकर्तारः अनेक-स्थलेषु तस्य भव्यस्वागतं करिष्यन्ति। एतेषु जम्मू-विमान-स्थानकस्य बहिः, जी.बी.पन्त-चिकित्सालयस्य समीपे, एशिया-होटल-इत्यस्य समीपे स्थिते महिला-महाविद्यालये तथा डोगरा-चत्वरे स्वागतकार्यक्रमाः भविष्यन्ति। ततः परं सः मिश्रीवाला-स्थिते ग्रैण्ड्-स्थले कार्यकर्तृसम्मेलनम् सम्बोधयिष्यति।
दिवसस्य अपराह्णे सः त्रिकुटा-नगरे स्थिते भाजपायाः जम्मू-कश्मीर-प्रधानकार्यालये पक्षपदाधिकारीणां सभायाः अध्यक्षतां करिष्यति। अस्यां सभायां सङ्गठनात्मककार्याणां समीक्षा भविष्यति तथा केन्द्रशासितप्रदेशस्य कृते पक्षस्य रणनीतिविषये चर्चा अपि भविष्यति।
सायंकाले तस्य ऐतिहासिके रघुनाथ-मन्दिरे पूजार्चनायाः कार्यक्रमः निर्धारितः अस्ति।
मङ्गलवासरे नितिन-नवीनः श्रीमाता-वैष्णोदेवी-मन्दिरे दर्शनार्थं गमिष्यति। ततः परं सः डोगरा-चत्वरे भाजपायाः वरिष्ठनेतुः प्रेमनाथ-डोगरा-महोदयस्य प्रतिमायां पुष्पाञ्जलिमर्पयिष्यति।
यात्रायाः द्वितीयदिने भाजपायाः सांसदैः, विधायकैः तथा पूर्वनिर्वाचितप्रतिनिधिभिः सह पृथक्-पृथक् सभा: अपि भविष्यन्ति। सः कन्वेन्शन-सेण्टर-स्थले आयोजिते ‘युवा-संवाद’-कार्यक्रमेऽपि सहभागित्वं करिष्यति, यत्र सः यूनां पक्षकार्यकर्तॄभिः सह संवादं करिष्यति तथा पक्षस्य दृष्टिकोणं सङ्घटनात्मक-कार्ययोजनां च प्रस्तोष्यति।
Hindusthan Samachar / Divya Ranjan