Enter your Email Address to subscribe to our newsletters

धर्मशाला, 06 जुलाईमासः (हि.स.)।मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मङ्गलवासरे हिमाचलप्रदेशराज्यपश्चाद्वर्गायोगस्य अध्यक्षस्य नवीनकार्यालयस्य उद्घाटनं दृश्यश्रव्यसम्मेलनमाध्यमेन करिष्यति। काङ्गडाजनपदस्य उपायुक्तः हेमराजबैरवा अवदत् यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मङ्गलवासरे अपराह्णे एकवादने धर्मशालायां पुरातननगरनिगमभवने निर्मितस्य कार्यालयस्य उद्घाटनं करिष्यति।
अस्मिन् अवसरे राज्यपश्चाद्वर्गायोगस्य अध्यक्षः अभियन्ता प्रभातचौधरी आयोगस्य सदस्यः राकेशचौधरी अधिवक्ता सपनाकटोच अधिवक्ता कश्मीरसिंहभारती राजीवराणा च तथा सदस्यसचिवः शिवमोहनसिंहसैनी एचएएस सहिताः अन्ये अधिकारिणः उपस्थिताः भविष्यन्ति।
Hindusthan Samachar / Dheeraj Maithani