Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 जुलाईमासः (हि.स.)।
दिल्लीप्रदेशस्य उपराज्यपालः तरनजीतसिंहसन्धुः सोमवासरे दिल्लीपुलिसायुक्तं निर्देशितवान् यत् पोक्सो अधिनियमस्य अन्तर्गतं पञ्जीकृतेषु सर्वेषु प्रकरणेषु सम्बद्धविभागानां मध्ये उत्तमसमन्वयेन सह त्वरिता सम्पूर्णा च कार्यवाही सुनिश्चितीक्रियताम्। सः अवदत् यत् प्रस्तावितोपायाः न केवलं बालसंरक्षणमासस्य अवधौ अपितु सदैव प्राथमिकतारूपेण कार्यान्विताः भवेयुः।
दिल्लीप्रदेशस्य उपराज्यपालः मुख्यमन्त्री रेखागुप्ता च सोमवासरे लोकनिवासे जुलाईमासे आयोज्यमानस्य बालसंरक्षणमासस्य अन्तर्गतं प्रचलितानां विविधकार्यक्रमाणाम् अभियानानां सुरक्षोपायानां च उच्चस्तरीयां समीक्षां कृतवन्तौ। सभायां बालकानां सुरक्षाविषये शिक्षाविभागेन दिल्लीपुलिसेन महिलाबालविकासविभागेन च क्रियमाणानां कार्याणां विस्तृतं मूल्याङ्कनं कृतम् तथा सर्वे विभागाः निर्धारितसमयसीमायाः अन्तर्गतं प्रभाविरूपेण कार्यं पूर्णं कर्तुं निर्देशिताः।
अस्यां समीक्षासभायां दिल्लीप्रदेशस्य मुख्यसचिवः पुलिसायुक्तः शिक्षासचिवः महिलाबालविकाससचिवः शिक्षानिदेशालयस्य महिलाबालविकासविभागस्य च निदेशकौ डीसीपी एसपीयूडब्ल्यूएसी तथा विभिन्नविभागानां वरिष्ठाधिकारिणः उपस्थिताः आसन्।
समीक्षाकाले उपराज्यपालः मुख्यमन्त्री च निर्देशितवन्तौ यत् बालकानां सुरक्षासम्बद्धाः सर्वे कार्यक्रमाः केवलं जुलाईमासपर्यन्तं सीमिताः न भवेयुः अपितु ते सर्वासां संस्थानां नियमितस्थायिव्यवस्थायाः अङ्गरूपेण स्थापिताः भवेयुः। सभायाम् एतदपि सूचितं यत् दिल्लीसर्वकारस्य सर्वेषु विद्यालयेषु पोक्सो अधिनियमानुरूपं बालसंरक्षणसमितीनां गठनं कृतम् अस्ति। तौ एतदपि निर्देशितवन्तौ यत् जुलाईमासस्य अन्तपर्यन्तं दिल्लीप्रदेशस्य सर्वेषु ५६३३ विद्यालयेषु एतादृशसमितीनां गठनं सुनिश्चितं क्रियताम्।
सभायाम् एतदपि सूचितं यत् प्रायः एकसहस्रं शैक्षिकव्यावसायिकमार्गदर्शनपरामर्शदातारः दिल्लीसर्वकारस्य विद्यालयेषु बालकान् सुरक्षितासुरक्षितस्पर्शविषये लैङ्गिकसंवेदनशीलताविषये वैयक्तिकसीमाविषये च जागरूकान् कुर्वन्ति। अस्मिन् विषये निर्देशः प्रदत्तः यत् राजधान्याः प्रत्येकस्मिन् विद्यालये एतादृशपरामर्शदातॄणाम् उपलब्धता सुनिश्चितीक्रियताम्।
उपराज्यपालः मुख्यमन्त्री च निर्देशितवन्तौ यत् जुलाईमासस्य अन्तर्गतं सर्वेषु विद्यालयेषु मुख्यप्रशिक्षकाणाम् अन्यप्रशिक्षकाणां च प्रशिक्षणं क्षमतावर्धनं च पूर्णं क्रियताम्। विद्यार्थिनां सुरक्षासम्बद्धपरीक्षणसूच्याः अनुपालनस्य प्रमाणपत्रं प्रस्तूयताम्। सर्वेषु विद्यालयेषु पोक्सो प्रकरणानां निस्तारणार्थं विस्तृता मानककार्यप्रणाली एसओपी कार्यान्विता क्रियताम्। अभिभावकप्रतिनिधीन् शिक्षाविभागं महिलाबालविकासविभागं दिल्लीपुलिसं विद्यालयप्रमुखांश्च समावेश्य संयुक्तनिरीक्षणदलानि गठितानि भवेयुः तथा सर्वेषां विद्यालयानां निरीक्षणं कारयितव्यम्। मातापितॄणां बालकानां च कृते अभिभावकशिक्षकसभानां पीटीएम श्रव्यदृश्यमाध्यमानां मुद्रितप्रचारसामग्रीणाम् अन्यसाधनानां च माध्यमेन व्यापकजनजागरूकताभियानं सञ्चाल्यताम्। दिल्लीपुलिसेन पोक्सो अधिनियमस्य अन्तर्गतं पञ्जीकृते प्रत्येकस्मिन् प्रकरणे त्वरिता प्रभाविणी समन्विता च कार्यवाही सुनिश्चितीक्रियताम्।
मुख्यमन्त्री रेखागुप्ता अवदत् यत् बालकानां सुरक्षासम्बद्धानां सर्वेषां कार्यक्रमाणां गतिविधीनां च प्रभावि समयबद्धं च कार्यान्वयनं सुनिश्चितं करणीयम्। सा अवदत् यत् एते प्रयासाः केवलम् एकमासपर्यन्तं सीमिताः न भवेयुः अपितु सर्वासां संस्थानां नियमितकार्यप्रणाल्याः अङ्गरूपेण स्थापिताः भवेयुः येन प्रत्येकस्मै बालकाय सुरक्षितं संवेदनशीलं च वातावरणं प्राप्तुं शक्येत।
सा एतदपि अवदत् यत् दिल्लीसर्वकारः बालकानां सुरक्षां सर्वोच्चप्राथमिकतां दत्त्वा सर्वेषां विभागानां मध्ये प्रभाविसमन्वयेन सह प्रत्येकस्य निर्देशस्य समयबद्धं पालनं सुनिश्चितं करिष्यति। सर्वकारस्य उद्देश्यं बालकानां सुरक्षार्थम् एतादृशीं सुदृढां स्थायिनीं च व्यवस्थां विकसितुं वर्तते यया राजधान्याः प्रत्येकः बालकः सुरक्षिते सम्मानपूर्णे विश्वासयोग्ये च वातावरणे अग्रे गन्तुं शक्नुयात्।
---------------
Hindusthan Samachar / Dheeraj Maithani