Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 06 जुलाईमासः (हि.स.)।उपराज्यपालः मनोजसिन्हा सोमवासरे अवदत् यत् समाजस्य प्रगत्यै महिलानां प्रगतिः अत्यन्तम् आवश्यकी अस्ति। सः विशेषरूपेण अवदत् यत् विकसितं जम्मूकश्मीरं तदैव निर्मातुं शक्यते यदा महिलाः सशक्ताः आर्थिकरूपेण स्वावलम्बिन्यः नेतृत्वे निर्णयग्रहणप्रक्रियायां च सक्रियतया सहभागिन्यः भवन्ति।
श्रीनगरस्य फेलो जेण्डर इक्विटी एडवोकेट्स इत्यस्य सम्मानसमारोहं सम्बोधयन् उपराज्यपालः एताम् उपक्रमं जम्मूकश्मीरे महिलासशक्तीकरणाय ऐतिहासिकं क्रान्तिकारी च क्षणम् इति वर्णितवान्। सः अवदत् यत् कश्मीरक्षेत्रस्य सामाजिकसंरचनायाः संरक्षणे महिलाभिः सदैव महत्त्वपूर्णा भूमिका निर्वहिता अस्ति तथा अत्र तासां महिलानां समृद्धा परम्परा अस्ति याभिः स्वविवेकस्य आध्यात्मिकतायाः सामाजिकसुधाराणां च माध्यमेन समाजस्य स्वरूपं निर्मितम्।
उपराज्यपालः अवदत् यत् सः एतादृशस्य जम्मूकश्मीरस्य स्वप्नं पश्यति यत्र महिलाः विद्यालयेषु उद्योगक्षेत्रे साहित्ये उद्यमितायां शासने सार्वजनिकनीतिनिर्माणे च नेतृत्वं कुर्युः। सः अवदत् यत् अहम् एतादृशं जम्मूकश्मीरं परिकल्पयामि यत्र प्रत्येकं बालिका एतां धारणां कृत्वा वर्धेत यत् तस्याः स्वप्नानि मूल्यवन्ति सन्ति तस्याः वाणी महत्त्वपूर्णा अस्ति तस्याः भविष्यस्य च कापि सीमा नास्ति। सः विश्वासं प्रकटितवान् यत् २०२९ तमवर्षानन्तरं महिलानां राजनीतिकसहभागिता पर्याप्तरूपेण वर्धिष्यते यतः देशेन निर्वाचनराजनीतौ महिलानां सहभागितावर्धनाय अनुकूलं वातावरणं निर्मितम् अस्ति।
सः अवदत् यत् विगतेषु कतिपयवर्षेषु जम्मूकश्मीरे महिलानाम् आर्थिकस्वातन्त्र्यं सुनिश्चितं कर्तुम् अनेकाः उपक्रमाः प्रारब्धाः सन्ति येषु हौसला मुमकिन राइज टुगेदर उम्मीद डी जी पी सखी कृषिसखी तथा अन्याः उद्यमितायोजनाः सम्मिलिताः सन्ति। शैक्षणिकोपलब्धीनाम् उल्लेखं कुर्वन् सिन्हा अवदत् यत् बालिकाः निरन्तरं बालकेभ्यः श्रेष्ठं प्रदर्शनं कुर्वन्ति तथा विश्वविद्यालयानां प्रायः ७० तः ७५ प्रतिशतं स्वर्णपदकानि छात्राभ्यः प्राप्यन्ते। सः युवजनान् पुरुषांश्च महिलानां नेतृत्वस्य सक्रियसमर्थनाय आहूतवान् तथा अवदत् यत् महिलासशक्तीकरणस्य उत्तरदायित्वं केवलं महिलानाम् एव न भवितुम् अर्हति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani