सूरत रथयात्रायां भगवान जगन्नाथः नीलवर्णीयवस्त्रेषु दास्यति दर्शनं, वृंदावने सज्जीभवन्ति विशिष्टानि परिधानानि
सूरतम्, 06 जुलाईमासः(हि.स.)। गुजरातराज्यस्य सूरतनगरे आयोज्यमानां इस्कानसंस्थायाः भगवज्जगन्नाथरथयात्राम् उद्दिश्य श्रद्धालुषु महान् उत्साहः दृश्यते। १६ जुलाई दिनाङ्के जहांगीरपुरास्थितेन इस्कानमन्दिरेण आयोज्यमानायां भव्यरथयात्रायां भगवान् जगन्नाथः
वृंदावन में तैयार हुआ विशेष परिधान


सूरतम्, 06 जुलाईमासः(हि.स.)।

गुजरातराज्यस्य सूरतनगरे आयोज्यमानां इस्कानसंस्थायाः भगवज्जगन्नाथरथयात्राम् उद्दिश्य श्रद्धालुषु महान् उत्साहः दृश्यते। १६ जुलाई दिनाङ्के जहांगीरपुरास्थितेन इस्कानमन्दिरेण आयोज्यमानायां भव्यरथयात्रायां भगवान् जगन्नाथः बलरामः सुभद्रा च राजकीयनीलवर्णीयेषु विशेषवस्त्रेषु भक्तेभ्यः दर्शनं दास्यन्ति। शुद्धकौशेयेन निर्मितेषु एतेषु परिधानेषु सुवर्णजरीयुक्तं मनोहरं हस्तसूचीकर्म कृतम् अस्ति यत् भगवतः दिव्यस्वरूपस्य भव्यताम् अधिकं वर्धयिष्यति।

मन्दिरप्रशासनानुसारम् एषा विशेषवेशभूषा वृन्दावनस्य कुशलशिल्पिभिः विशेषादेशेन निर्मिता अस्ति। प्रायः १५ शिल्पिभिः सार्धैकमासस्य परिश्रमेण एतद्परिधानंनिर्मितम् यस्मिन् प्रायः ३ लक्षरूप्यकाणां व्ययः अभवत्। मन्दिरप्रतिनिधयः अवदन् यत् भगवतः वस्त्राणि पूजायाः अधिकांशसामग्री च वृन्दावनात् एव आनीयन्ते यतः तत् भगवतः श्रीकृष्णस्य पवित्रलीलाभूमिः मन्यते।

रथयात्रायाः शुभारम्भः १६ जुलाई दिनाङ्के अपराह्णे ३ वादने सूरतरेलस्थानकात् भविष्यति। तदनन्तरं रथः रिङ्गरोड अठवागेट गुजरातगैससर्कलसहितैः नगरस्य प्रमुखमार्गैः गमिष्यति तथा रात्रौ प्रायः ९ वादने जहांगीरपुरास्थितम् इस्कानमन्दिरं प्राप्स्यति। तत्र महाआरात्रिकेन सह रथयात्रायाः समापनं भविष्यति। अस्मिन् अवधौ भगवतः जगन्नाथस्य अस्य विशेषराजकीयस्वरूपस्य दर्शनार्थं बहुसंख्यकानां श्रद्धालूनां समागमनस्य सम्भावना अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani