Enter your Email Address to subscribe to our newsletters

नवदेहली, ०६ जुलाईमासः (हि.स.)। भारतीय-जनता-पक्षस्य वरिष्ठ-नेता प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे अवदत् यत् डॉ.श्यामाप्रसादमुखर्जिना यः विचारबीजः उप्तः, सः अद्य आधुनिक-भारताय दिशां प्रदातुं महतीं भूमिकां निर्वहति। भारतीय-जनसङ्घस्य स एव विचारः अद्य भारतीय-जनता-पक्षस्य रूपेण विश्वस्य बृहत्तमतया लोकतान्त्रिक-राजनैतिक-शक्त्या जनसेवां करोति। मोदी अवदत् यत् तस्य सर्वकारेण अनुच्छेदः ३७० निरस्तः, एवं च डॉ.मुखर्जीमहोदयस्य स्वप्नं साकारं कृतम्। तस्य १२५-तमी जयन्ती द्विवर्षात्मक-राष्ट्रीयोत्सवरूपेण आचर्यते।
प्रधानमन्त्री दृश्यश्रव्य-सम्मेलन-माध्यमेन डॉ.श्यामाप्रसादमुखर्जीमहोदयस्य १२५-तम-जयन्त्याः अवसरे आयोजितं कार्यक्रमं सम्बोधयन् अवदत् यत् पूर्वनिर्धारित-कार्यक्रमात् सः प्रवासे वर्तते, किन्तु प्रौद्योगिक्याः साहाय्येन अस्मिन् ऐतिहासिके आयोजने सम्बद्धः अस्ति। सः डॉ.मुखर्जीं भारतस्य अखण्डतायै समर्पितं महान्तं देशभक्तं युगद्रष्टारं च कथयन् तस्मै श्रद्धाञ्जलिम् अर्पितवान्।
मोदी अवदत् यत् यदा राष्ट्रं प्रथमम् इति भावनया प्रेरितः सर्वकारः भवति तदा राष्ट्रनायकानां सम्मानोऽपि भवति, तेषां दूरदृष्टेः कार्यान्वयनस्य प्रयत्नोऽपि क्रियते। सः अवदत् यत् केन्द्रीय-सर्वकारः डॉ.मुखर्जीमहोदयस्य १२५-तमीं जयन्तीं द्विवर्षात्मक-राष्ट्रीयोत्सवरूपेण आचरति। अयं उत्सवः गतवर्षस्य जुलाईमासस्य षष्ठदिनाङ्कात् आरभ्य अग्रिमवर्षस्य तदेव दिनाङ्कं यावत् प्रचलिष्यति। सः पश्चिमबङ्ग-सर्वकारं भव्याय आयोजनाय अभिनन्दन् अवदत् यत् समीपे आचरितः पश्चिमबङ्ग-दिवसः तथा अयं कार्यक्रमः राज्यस्य परम्परां प्रति सम्मानस्य प्रतीकः अस्ति।
प्रधानमन्त्री अवदत् यत् डॉ.मुखर्जी-महोदयस्य जीवनम् एकस्मात् विचारात् जनान्दोलनरूपे परिणतायाः प्रेरणादायिन्याः यात्रायाः उदाहरणम् अस्ति। तेन तस्मिन् काले भारतीय-जनसङ्घस्य स्थापना कृता, यस्मिन् समये देशे काङ्ग्रेस-पक्षस्य राजनीतिक-प्राधान्यम् आसीत् तथा वैकल्पिक-विचारधारायै स्थानं न दृश्यते स्म। तेन उक्तं यत् जनसङ्घस्य स्थापना केवलं राजनीतिक-दलस्य निर्माणस्य निर्णयः नासीत्, अपितु लोकतन्त्रे वैचारिक-वैविध्ये, राष्ट्रिय-चिन्तने, जनसहभागितायां च तस्य अटूट-विश्वासस्य अभिव्यक्तिरासीत्।
सः अवदत् यत् लक्षशः कार्यकर्तॄणां तपसा, त्यागेन, समर्पणेन च जनसङ्घस्य विचारः जीवितः स्थितः। अद्य स एव विचारः भारतीय-जनता-पक्षस्य रूपेण विश्वस्य बृहत्तमतया लोकतान्त्रिक-राजनीतिक-शक्त्या देशसेवां करोति। सः विश्वासं व्यक्तवान् यत् भविष्ये भाजपायाः यात्रायाः इतिहासलेखने डॉ.मुखर्जीमहोदयस्य विचाराणां, साहसस्य, दूरदृष्टेश्च विशेषतः उल्लेखः भविष्यति।
मोदी अवदत् यत् संसदि डॉ.मुखर्जिना उक्तं यत् राष्ट्रियैकतायाः आधारे एव स्वर्णिम-भविष्यस्य आधारशिलां स्थापयितुं शक्यते। सः आजीवनम् अस्य सिद्धान्तस्य पालनम् अकरोत्। १९४७-तमे वर्षे देशविभाजनस्य समये सम्पूर्णं बङ्गालं भारतात् पृथक्कर्तुं कृतानां षड्यन्त्राणां विरुद्धं डॉ.मुखर्जी शिलावत् अचलः स्थितवान् तथा राजनीतिक-सङ्घर्षेण पश्चिमबङ्गः भारतस्य अभिन्नाङ्गरूपेण स्थास्यतीति सुनिश्चितवान्।
प्रधानमन्त्री अवदत् यत् डॉ.मुखर्जिना “एकस्मिन् देशे द्वे विधाने, द्वौ प्रधानौ, द्वौ ध्वजौ न चलिष्यतः” इति मन्त्रः प्रदत्तः। एतत् केवलं घोषवाक्यं नासीत्, अपितु समानाधिकारस्य, समानसंविधानस्य, समानराष्ट्रीयचेतनायाश्च आह्वानम् आसीत्। डॉ.मुखर्जी स्वसिद्धान्तानां कृते सङ्घर्षम् अकरोत्, कारागारमगच्छत्, कश्मीरार्थं च सर्वोच्चं बलिदानम् अयच्छत्। तस्य सर्वकारेण अनुच्छेद-३७०-व्यवस्था निरस्ता, तेन तस्य स्वप्नं साकारं कृतम्।
सः अवदत् यत् ‘एकं भारतम्, श्रेष्ठं भारतम्’ इति अवधारणा डॉ.मुखर्जीमहोदयस्य राष्ट्रिय-दृष्टेः विस्तारः अस्ति, यस्मिन् उत्तर-दक्षिणयोः, पूर्व-पश्चिमयोः वा कश्चिद् भेदः नास्ति। समग्रः देशः एकेन संविधानेन, एकया राष्ट्रियभावनया, समान-भविष्यस्य सङ्कल्पेन च सम्बद्धः अस्ति। अद्य सम्पूर्णे देशे संविधानं समानरूपेण प्रवर्तते, एतदेव डॉ.मुखर्जीमहोदयस्य प्रेरणायाः फलम् अस्ति।
प्रधानमन्त्री अवदत् यत् केवलं त्रयस्त्रिंशद्वर्षीये वयसि कलकत्ता-विश्वविद्यालयस्य कनिष्ठतमः कुलपतिः जातः डॉ.मुखर्जी शिक्षां राष्ट्रनिर्माणस्य माध्यमम् अमन्यत। सः मातृभाषायां शिक्षां भारतीयभाषानां सम्मानं च प्रोत्साहितवान्। मोदी अवदत् यत् नूतन-राष्ट्रीय-शिक्षा-नीतेः अन्तर्गतं स्थानीयभाषासु शिक्षायाः संवर्धनेन तस्य सर्वकारः डॉ.मुखर्जीमहोदयस्य एतत् स्वप्नं साकारं करोति।
सः अवदत् यत् स्वतन्त्रभारतस्य प्रथम-उद्योगमन्त्रिरूपेण डॉ.मुखर्जी औद्योगिक-विकासस्य दृढाम् आधारशिलां स्थापितवान्। चित्रञ्जन-लोकोमोटिव-वर्क्स, सिन्दरी-उर्वरक-संयन्त्रम्, दामोदर-घाटी-निगमः तथा इण्डस्ट्रियल-फाइनान्स-कॉर्पोरेशन-ऑफ-इण्डिया इत्यादीनां संस्थानां स्थापनायां तस्य महत्त्वपूर्णा भूमिका आसीत्। तस्य कृते उद्योगाः, विश्वविद्यालयाः, अनुसन्धान-संस्थानानि च केवलं संस्थाः नासन्, अपितु राष्ट्रनिर्माणस्य साधनाकेन्द्राणि आसन्।
प्रधानमन्त्री यूनः प्रति आह्वानम् अकरोत् यत् यथा डॉ.श्यामाप्रसादमुखर्जी एक-भारताय स्वजीवनं समर्पितवान्, तथैव सर्वैः श्रेष्ठभारतस्य विकसितभारतस्य च निर्माणाय कार्यं करणीयम्। आत्मनिर्भर-भारतस्य लक्ष्यस्य सिद्ध्यर्थं प्रयतितुं प्रेरयन् सः डॉ.मुखर्जीमहोदयस्य एतत् सन्देशम् अपि स्मारितवान्— “यत् कार्यम् आरभसे, तत् सम्पूर्णया गाम्भीर्येण, निष्ठया, समर्पणेन च सम्पन्नं कुरु।”
Hindusthan Samachar / Divya Ranjan