Enter your Email Address to subscribe to our newsletters

- ज्ञान भारतम् इत्यस्मिन्उपागमे मध्य प्रदेशः ने अपलोडकृतवान् सर्वाधिकदुर्लभाः पांडुलिपीः
भोपालम्, 06 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य भूमिः भारतस्य प्राचीनज्ञानसम्पदः सांस्कृतिकधरोहरस्य च संरक्षणविषये सम्पूर्णे देशे महतीम् उपलब्धिं प्राप्तवती अस्ति। भारतसर्वकारस्य अङ्कीयोपक्रमस्य ज्ञानभारतम् अनुप्रयोगस्य अनुसारं दुर्लभप्राचीनपाण्डुलिपीनां सूचनापञ्जीकरणे तासां संरक्षणे च मध्यप्रदेशः सम्पूर्णे देशे प्रथमस्थानं प्राप्तवान् अस्ति। एषा सफलता राज्यस्य समृद्धाम् ऐतिहासिकीं बौद्धिकीं च विरासतं वैश्विकपटले पुनः प्रतिष्ठापयितुं महत्त्वपूर्णः मीलस्तम्भः सिद्धा भवति।
जनसम्पर्काधिकारी अनुराग उइके सोमवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः सांस्कृतिकाभ्युदयसङ्कल्पः मुख्यमन्त्रिणः डा मोहनयादवस्य सशक्तनेतृत्वे साकारः क्रियते। ज्ञानभारतम् अनुप्रयोगमाध्यमेन ३ जुलाई २०२६ दिनाङ्कपर्यन्तं मध्यप्रदेशे आहत्य ३४ लक्ष ४५ सहस्र ४३९ पाण्डुलिपिपृष्ठानां पञ्जीकरणं कृतम् अस्ति। १२ लक्ष १३ सहस्र १२७ पाण्डुलिपीनां ज्ञानभारतम् द्वारा सफलतया सत्यापनं कृतम् अस्ति। शेषाः पाण्डुलिपयः सत्यापनप्रक्रियायां सन्ति यासां चरणबद्धरीत्या परीक्षणं प्रमाणीकरणं च क्रियते।
देशस्य प्राचीनमेधां नवपीढीं प्रति प्रापयितुं महायज्ञः शिवशेखरशुक्लः
संस्कृतिधार्मिकन्यासधर्मस्वसामान्यप्रशासनविभागानाम् अपरमुख्यसचिवः शिवशेखरशुक्लः अस्याम् ऐतिहासिकोपलब्धौ हर्षं प्रकटयन् अवदत् यत् अद्यापि विश्वस्य मन्दिरेषु मठेषु पुस्तकालयेषु सङ्ग्रहालयेषु च संरक्षिताः भारतीयपाण्डुलिपयः अस्माकं समृद्धज्ञानपरम्परायाः अमूल्यधरोहराः सन्ति। एतासां संरक्षणम् अङ्कीकरणं पुनःप्रसारणं च भारतस्य प्राचीनज्ञानसम्पदं नवपीढीं प्रति प्रापयितुं महत्त्वपूर्णं माध्यमं भवति। अनेन सह भारतं स्वज्ञानपरम्परां वैश्विकस्तरे पुनः प्रतिष्ठापयन् विश्वगुरुरूपेण स्वकीयां गौरवशालिनीं परिचितिं सुदृढां करोति। मध्यप्रदेशस्य जनपदानाम् उत्कृष्टप्रयासैः न केवलं प्रदेशस्य समृद्धज्ञानपरम्परायाः संरक्षणाय नवीना दिशा प्रदत्ता अपितु भारतस्य प्राचीनसांस्कृतिकबौद्धिकधरोहरस्य संरक्षणार्थं राष्ट्रियाभियानमपि सुदृढीकृतम् अस्ति।
प्रदेशे पाण्डुलिपीनां पञ्जीकरणार्थं विशेषाभियानम्
जनसम्पर्काधिकारी अवदत् यत् ज्ञानभारतम् अभियानस्य अन्तर्गतं पाण्डुलिपीनां पञ्जीकरणार्थं मध्यप्रदेशस्य सर्वेषु जनपदेषु विशेषाभियानं सञ्चाल्यते। १ जुलाई दिनाङ्कपर्यन्तस्य विवरणानुसारं भोपालजनपदेन सर्वाधिकानां २४ लक्ष २६ सहस्र १७२ पाण्डुलिपीनां पञ्जीकरणं कृतम् अस्ति। तदनन्तरम् इन्दौरजनपदे ३ लक्ष ९९ सहस्र ४७७ रीवाजनपदे २ लक्ष ६८ सहस्र ७६३ बैतूलजनपदे १ लक्ष ५९३ तथा छिन्दवाडाजनपदे ७७ सहस्र ९४ पाण्डुलिपयः पञ्जीकृताः सन्ति।
पन्नाजनपदात् ६४ सहस्र २५७ सागरजनपदात् ६० सहस्र २५ ग्वालियरजनपदात् २९ सहस्र ८७० उज्जयिनीजनपदात् २० सहस्र ९९५ रायसेनजनपदात् १५ सहस्र ५३९ मन्दसौरजनपदात् १२ सहस्र ४१२ अनूपपुरजनपदात् ११ सहस्र ८२९ नीमचजनपदात् ८ सहस्र ९५० मऊगञ्जजनपदात् ८ सहस्र ४०६ खण्डवाजनपदात् ५ सहस्र ७४० जबलपुरजनपदात् ४ सहस्र ७१५ सतनाजनपदात् ४ सहस्र ६१ नर्मदापुरम् होशङ्गाबादजनपदात् ४ सहस्र ४९ गुणाजनपदात् ३ सहस्र ९३७ उमरियाजनपदात् ३ सहस्र ८२४ दतियाजनपदात् ३ सहस्र १७९ विदिशाजनपदात् २ सहस्र ७४५ सीधीजनपदात् २ सहस्र ४९७ अशोकनगरजनपदात् १ सहस्र ९०८ बालाघाटजनपदात् १ सहस्र ७४१ शहडोलजनपदात् १ सहस्र ३९७ टीकमगढजनपदात् १ सहस्र २९० मण्डलाजनपदात् ९५७ शिवपुरीजनपदात् ९४३ धारजनपदात् ८७० भिण्डजनपदात् ८०० रतलामजनपदात् ७३१ मुरैनाजनपदात् ६५५ शाजापुरजनपदात् ६३८ बडवानीजनपदात् ६१४ सीहोरजनपदात् ६०७ सिवनीजनपदात् ५६४ छतरपुरजनपदात् ३८१ देवासजनपदात् ३३० श्योपुरजनपदात् ३१० नरसिंहपुरजनपदात् २५४ राजगढजनपदात् १९८ निवाडीज़नपदात् १७७ खरगोनजनपदात् १७१ मैहरजनपदात् १४६ दमोहजनपदात् १३३ बुरहानपुरजनपदात् १२० हरदाजनपदात् ८४ कटनीजनपदात् ८३ आगरमालवाजनपदात् ५७ सिङ्गरौलीजनपदात् ३३ झाबुआजनपदात् १७ अलीराजपुरजनपदात् ८ पाण्डुर्णाजनपदात् ३ तथा डिण्डौरीजनपदात् १ पाण्डुलिपेः पञ्जीकरणं कृतम् अस्ति।
एषा व्यापकसहभागिता दर्शयति यत् प्रदेशस्य सर्वैः जनपदैः भारतस्य प्राचीनज्ञानपरम्परायाः सांस्कृतिकविरासतस्य पाण्डुलिपिधरोहरस्य च संरक्षणदस्तावेजीकरणयोः राष्ट्रियाभियाने स्वकीया सक्रिया महत्त्वपूर्णा च भूमिका निर्वाहिता अस्ति।
ज्ञानभारतम् अनुप्रयोगः तस्य उद्देश्यम् च
ज्ञानभारतम् अनुप्रयोगः भारतसर्वकारस्य एकः अद्वितीयः अङ्कीयोपक्रमः अस्ति यस्य मुख्योद्देश्यं भारतस्य प्राचीनज्ञानपरम्परायाः संरक्षणं दुर्लभपाण्डुलिपीनां विशालस्य अङ्कीयाभिलेखस्य निर्माणं च अस्ति। एताः भारतीयपाण्डुलिपयः केवलम् अतीतस्य स्मृतयः न सन्ति अपितु वसुधैव कुटुम्बकम् इति भावनया प्रेरितस्य ज्ञानस्य संस्कृतेः जीवनमूल्यानां च जीवन्तस्रोतांसि सन्ति यानि सम्पूर्णमानवतायाः कल्याणस्य मार्गं प्रशस्तं कुर्वन्ति। अस्य अङ्कीयाभियानस्य माध्यमेन शोधकर्तृभ्यः विद्यार्थिभ्यः सामान्यनागरिकेभ्यश्च एतेषाम् अमूल्यग्रन्थानाम् अभिगमः अत्यन्तं सरलः जातः अस्ति।
पाण्डुलिपीनां संरक्षणे अङ्कीकरणे च नागरिकाः अपि सहभागिनः भवितुं शक्नुवन्ति
ज्ञानभारतम् अनुप्रयोगः न केवलं सूचनां प्रददाति अपितु सामान्यजनान् अपि अस्मिन् सांस्कृतिकमहायज्ञे संयोजयति।
सुबुद्धान्वेषणम्
उपयोक्तारः शीर्षकस्य लेखकस्य भाषायाः विषयस्य सङ्ग्रहस्थलस्य च आधारेण कस्याश्चित् पाण्डुलिपेः सूचनां सरलतया अन्वेष्टुं शक्नुवन्ति। यदि कस्यचित् व्यक्तेः संस्थायाः वा समीपे काचित् दुर्लभपाण्डुलिपिः उपलब्धा अस्ति तर्हि ते अनुप्रयोगमाध्यमेन तस्याः संरक्षणार्थम् अङ्कीकरणार्थं वा प्रत्यक्षतया अनुरोधं पञ्जीकर्तुं शक्नुवन्ति। सामान्यनागरिकाः स्वसमीपे विद्यमानानां प्राचीनहस्तलिखितग्रन्थानां सूचनां प्रदाय भारतं पुनः विश्वगुरुरूपेण प्रतिष्ठापयितुं स्वयोगदानं दातुं शक्नुवन्ति।
जनपदेभ्यः प्राप्ताः दुर्लभप्राचीनपाण्डुलिपयः
जनसम्पर्काधिकारी अवदत् यत् ज्ञानभारतम् अभियानान्तर्गतसंरक्षणकार्येण अनेकाः प्राचीनहस्तलिखितपाण्डुलिपयः ज्ञाताः सन्ति। टीकमगढजनपदात् दशपाददीर्घः जम्बूद्वीपस्य रहस्यमयः मानचित्रः प्राप्तः अस्ति। अस्मिन् प्राचीनभारतीयभूगोलं प्रदर्शयन् जम्बूद्वीपस्य अत्यन्तं रहस्यमयः दुर्लभश्च मानचित्रः अङ्कितः अस्ति। चित्रस्य मध्ये वृत्ताकारा संरचना दृश्यते तस्याः परितः पर्वतमालाः विविधक्षेत्राणि च प्रदर्शितानि सन्ति।
एवमेव पन्नाजनपदस्य श्रीरामजानकीमन्दिरे महाकविना केशवदासेन विरचितायाः रसिकप्रियायाः १५९१ ईसवीयवर्षस्य हस्तलिखिता पाण्डुलिपिः प्राप्ता अस्ति। एषः रीतिकालस्य प्रतिष्ठितः लक्षणग्रन्थः अस्ति यः काव्यशास्त्रे शृङ्गाररसे नायिकाभेदे च आधारितः अस्ति। अस्मिन् अमूर्तशास्त्रीयनियमाः राधाकृष्णयोः प्रेमप्रसङ्गानां मौलिकच्छन्दसां च माध्यमेन व्याख्याताः सन्ति।
बुरहानपुरजनपदात् २२० वर्षप्राचीनः हस्तलिखितः विंशतिपाददीर्घः श्रीमद्भागवतमहापुराणग्रन्थः अपि प्राप्तः अस्ति यस्य आधिकारिकरूपेण पञ्जीकरणं कृतम् अस्ति। दतियाजनपदे राधावल्लभमिश्रस्य आवासात् ओरछानरेशस्य राज्ञः उद्दोतसिंहस्य कालस्य एकः ताम्रपत्राभिलेखः प्राप्तः अस्ति यस्मिन् विक्रमसंवत् १८२८ अङ्कितम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani