Enter your Email Address to subscribe to our newsletters



नवदेहली, ०६ जुलाईमासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी अवदत् यत् डॉ.श्यामाप्रसादमुखर्जी राष्ट्रवादी-नेता आसीत्, यः राष्ट्रहितं सर्वोपरि मन्यमानः केन्द्रीय-मन्त्रिपदमपि अत्यजत्। सः जम्मू-कश्मीर-प्रदेशे पृथक्-ध्वज:, पृथक्-विधानम् तथा पृथक्-प्रधान-व्यवस्थायाः विरोधम् अकरोत् तथा देशस्य एकतायै अखण्डतायै च सङ्घर्षं कुर्वन् स्वजीवनस्य बलिदानम् अकरोत्।
सोमवासरे देहली-भाजपया डॉ.श्यामा-प्रसादमुखर्जीमहोदयस्य १२५-तम-जयन्त्याः अवसरे सिविक-सेण्टर-स्थले आयोजिते व्याख्यान-कार्यक्रमे गडकरी सम्बोधनम् अकरोत्। अस्मिन् कार्यक्रमे देहली-मुख्यमन्त्री रेखा-गुप्ता, देहली-भाजपा-अध्यक्षः हर्ष-मल्होत्रा, सांसदाः, मन्त्रिणः तथा दलस्य वरिष्ठ-पदाधिकारिणश्च उपस्थिताः आसन्।
गडकरी अवदत् यत् डॉ.मुखर्जीमहोदयस्य पिता आशुतोषमुखर्जी महान् शिक्षाविद् आसीत् तथा तस्य विचाराणां डॉ.मुखर्जीमहोदयस्य जीवने गम्भीरः प्रभावः अभवत्। सः शिक्षां आध्यात्मिक-मूल्यैः सह सम्बद्धां कर्तुं बलम् अयच्छत्। स्वातन्त्र्यानन्तरं पण्डित-जवाहरलाल-नेहरू स्वमन्त्रिमण्डले तम् उद्योगमन्त्रिपदे नियुक्तवान्, यत्र सः भारतस्य औद्योगिक-विकासस्य दृढां आधारशिलां स्थापितवान्।
सः अवदत् यत् देशविभाजनानन्तरमपि तुष्टीकरणनीतिः प्रवर्तिता आसीत्। तस्याः विरोधं कृत्वा डॉ.मुखर्जी मन्त्रीपदं त्यक्तवान्। तस्मिन् काले जम्मू-कश्मीर-प्रदेशे पृथक् व्यवस्था प्रवर्तमाना आसीत् तथा तत्र गन्तुं प्रवेश-अनुज्ञापत्रस्य आवश्यकता आसीत्, यत् देशस्य एकतायाः संविधानस्य भावनायाश्च विरुद्धम् आसीत्। डॉ. मुखर्जी धारा-३७०-निरसनस्य जम्मू-कश्मीरस्य च पूर्णतया भारतस्य अभिन्नाङ्गत्वस्य समर्थनम् अकरोत्।
गडकरी अवदत् यत् कश्मीरे ‘एकस्मिन् देशे द्वौ ध्वजौ, द्वौ प्रधानौ, द्वे विधानं न चलिष्यतः’ इति घोषः डॉ.मुखर्जिना उद्घोषितः। अस्य आन्दोलनस्य समये तं निगृहीत्वा कारागारे स्थापितम्, यत्रैव तस्य निधनम् अभवत्। तस्य मृत्युः राष्ट्रवादी-विचारधारायै महान् आघातः आसीत्, किन्तु तस्य विचाराः कदापि न विनष्टाः।
सः अवदत् यत् व्यक्तिं व्यवस्थां वा समाप्तुं शक्यते, किन्तु विचाराः कदापि न समाप्तुं शक्यन्ते। डॉ. मुखर्जीमहोदयस्य विचाराः अद्यापि कोटिशः जनान् प्रेरयन्ति। जनसङ्घस्य विषये कदाचित् साम्प्रदायिकत्वस्य जातिवादस्य च आरोपाः कृताः, किन्तु तस्य विचारधारा सामाजिक-समरसतायाः आर्थिक-समतायाश्च आधारे प्रतिष्ठिता आसीत्।
देहली-मुख्यमन्त्री रेखा-गुप्ता अवदत् यत् डॉ.श्यामाप्रसादमुखर्जी १२५-वर्षाणामनन्तरमपि अतः स्मर्यन्ते यतः ते केवलं स्वातन्त्र्यार्थं न सङ्घर्षितवन्तः, अपितु स्वतन्त्रभारतस्य स्वरूपं कथं भवेत् इति विषये अपि स्पष्टां दृष्टिं प्रदर्शितवन्तः। तैः ‘राष्ट्रं प्रथमम्’ इति विचारः स्वजीवनस्य लक्ष्यरूपेण स्वीकृतः।
मुख्यमन्त्री अवदत् यत् जम्मू-कश्मीरे त्रिरङ्गध्वजस्य भारतीय-संविधानस्य च सम्मानार्थं डॉ.मुखर्जी सङ्घर्षम् अकरोत्। सः लालचौक-स्थले त्रिरङ्गध्वजम् आरोपयितुं साहसं प्रदर्शितवान् तथा ‘एकस्मिन् देशे द्वौ ध्वजौ, द्वौ प्रधानौ, द्वे विधाने न चलिष्यतः’ इति घोषम् उद्घोषितवान्। धारा-३७०-कारणात् जम्मू-कश्मीर-प्रदेशाय विशेष-दर्जा प्रदत्तः आसीत् तथा देशस्य अन्येषां भागानां जनानां तत्र गन्तुं प्रवेश-अनुज्ञापत्रस्य आवश्यकता आसीत्। एषा व्यवस्था देशस्य एकतायाः अनुकूला नासीत्।
रेखा-गुप्ता अवदत् यत् नेहरू-सर्वकारस्य नीतिषु असहमतिं प्रदर्श्य डॉ. मुखर्जी सर्वकारं त्यक्त्वा जनसङ्घस्य स्थापनाम् अकरोत्, यस्मात् अनन्तरं भारतीय-जनता-पक्षस्य उदयः अभवत्। धारा-३७०-निरसनार्थं तेन व्यापकं जनान्दोलनं प्रारब्धम्, यस्य परिणामं देशः परवर्तिकाले दृष्टवान्।
देहली-भाजपा-अध्यक्षः हर्ष-मल्होत्रा अवदत् यत् डॉ.मुखर्जी केवलं विचारान् न प्रदत्तवान्, अपितु तान् स्वजीवने चरितार्थीकृतवान्। सः अवदत् यत् अल्पवयसि एव कलकत्ता-विश्व-विद्यालयस्य कुलपतित्वं प्राप्तुं तस्य असाधारण-प्रतिभायाः नेतृत्व-क्षमतायाश्च प्रमाणम् आसीत्।
/ अंशु गुप्ता