डॉ. श्यामाप्रसादमुखर्जी राष्ट्रहिताय मन्त्रिपदं त्यक्तवान्, तुष्टीकरणनीतेः विरुद्धं सङ्घर्षम् अकरोत् - नितिन-गडकरी
नवदेहली, ०६ जुलाईमासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी अवदत् यत् डॉ.श्यामाप्रसादमुखर्जी राष्ट्रवादी-नेता आसीत्, यः राष्ट्रहितं सर्वोपरि मन्यमानः केन्द्रीय-मन्त्रिपदमपि अत्यजत्। सः जम्मू-कश्मीर-प्रदेशे पृथक्-ध्वज:, पृथक्-व
नई दिल्ली के सिविक सेंटर में डॉ. श्यामा प्रसाद मुखर्जी की 125वीं जयंती पर आयोजित व्याख्यान कार्यक्रम में केंद्रीय मंत्री नितिन गडकरी। साथ में मुख्यमंत्री रेखा गुप्ता और अन्य नेता।


नई दिल्ली के सिविक सेंटर में डॉ. श्यामा प्रसाद मुखर्जी की 125वीं जयंती पर आयोजित व्याख्यान कार्यक्रम में केंद्रीय मंत्री नितिन गडकरी। साथ में मुख्यमंत्री रेखा गुप्ता और अन्य नेता।


नई दिल्ली के सिविक सेंटर में डॉ. श्यामा प्रसाद मुखर्जी की 125वीं जयंती पर आयोजित व्याख्यान कार्यक्रम में केंद्रीय मंत्री नितिन गडकरी। साथ में मुख्यमंत्री रेखा गुप्ता और अन्य नेता।


नवदेहली, ०६ जुलाईमासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी अवदत् यत् डॉ.श्यामाप्रसादमुखर्जी राष्ट्रवादी-नेता आसीत्, यः राष्ट्रहितं सर्वोपरि मन्यमानः केन्द्रीय-मन्त्रिपदमपि अत्यजत्। सः जम्मू-कश्मीर-प्रदेशे पृथक्-ध्वज:, पृथक्-विधानम् तथा पृथक्-प्रधान-व्यवस्थायाः विरोधम् अकरोत् तथा देशस्य एकतायै अखण्डतायै च सङ्घर्षं कुर्वन् स्वजीवनस्य बलिदानम् अकरोत्।

सोमवासरे देहली-भाजपया डॉ.श्यामा-प्रसादमुखर्जीमहोदयस्य १२५-तम-जयन्त्याः अवसरे सिविक-सेण्टर-स्थले आयोजिते व्याख्यान-कार्यक्रमे गडकरी सम्बोधनम् अकरोत्। अस्मिन् कार्यक्रमे देहली-मुख्यमन्त्री रेखा-गुप्ता, देहली-भाजपा-अध्यक्षः हर्ष-मल्होत्रा, सांसदाः, मन्त्रिणः तथा दलस्य वरिष्ठ-पदाधिकारिणश्च उपस्थिताः आसन्।

गडकरी अवदत् यत् डॉ.मुखर्जीमहोदयस्य पिता आशुतोषमुखर्जी महान् शिक्षाविद् आसीत् तथा तस्य विचाराणां डॉ.मुखर्जीमहोदयस्य जीवने गम्भीरः प्रभावः अभवत्। सः शिक्षां आध्यात्मिक-मूल्यैः सह सम्बद्धां कर्तुं बलम् अयच्छत्। स्वातन्त्र्यानन्तरं पण्डित-जवाहरलाल-नेहरू स्वमन्त्रिमण्डले तम् उद्योगमन्त्रिपदे नियुक्तवान्, यत्र सः भारतस्य औद्योगिक-विकासस्य दृढां आधारशिलां स्थापितवान्।

सः अवदत् यत् देशविभाजनानन्तरमपि तुष्टीकरणनीतिः प्रवर्तिता आसीत्। तस्याः विरोधं कृत्वा डॉ.मुखर्जी मन्त्रीपदं त्यक्तवान्। तस्मिन् काले जम्मू-कश्मीर-प्रदेशे पृथक् व्यवस्था प्रवर्तमाना आसीत् तथा तत्र गन्तुं प्रवेश-अनुज्ञापत्रस्य आवश्यकता आसीत्, यत् देशस्य एकतायाः संविधानस्य भावनायाश्च विरुद्धम् आसीत्। डॉ. मुखर्जी धारा-३७०-निरसनस्य जम्मू-कश्मीरस्य च पूर्णतया भारतस्य अभिन्नाङ्गत्वस्य समर्थनम् अकरोत्।

गडकरी अवदत् यत् कश्मीरे ‘एकस्मिन् देशे द्वौ ध्वजौ, द्वौ प्रधानौ, द्वे विधानं न चलिष्यतः’ इति घोषः डॉ.मुखर्जिना उद्घोषितः। अस्य आन्दोलनस्य समये तं निगृहीत्वा कारागारे स्थापितम्, यत्रैव तस्य निधनम् अभवत्। तस्य मृत्युः राष्ट्रवादी-विचारधारायै महान् आघातः आसीत्, किन्तु तस्य विचाराः कदापि न विनष्टाः।

सः अवदत् यत् व्यक्तिं व्यवस्थां वा समाप्तुं शक्यते, किन्तु विचाराः कदापि न समाप्तुं शक्यन्ते। डॉ. मुखर्जीमहोदयस्य विचाराः अद्यापि कोटिशः जनान् प्रेरयन्ति। जनसङ्घस्य विषये कदाचित् साम्प्रदायिकत्वस्य जातिवादस्य च आरोपाः कृताः, किन्तु तस्य विचारधारा सामाजिक-समरसतायाः आर्थिक-समतायाश्च आधारे प्रतिष्ठिता आसीत्।

देहली-मुख्यमन्त्री रेखा-गुप्ता अवदत् यत् डॉ.श्यामाप्रसादमुखर्जी १२५-वर्षाणामनन्तरमपि अतः स्मर्यन्ते यतः ते केवलं स्वातन्त्र्यार्थं न सङ्घर्षितवन्तः, अपितु स्वतन्त्रभारतस्य स्वरूपं कथं भवेत् इति विषये अपि स्पष्टां दृष्टिं प्रदर्शितवन्तः। तैः ‘राष्ट्रं प्रथमम्’ इति विचारः स्वजीवनस्य लक्ष्यरूपेण स्वीकृतः।

मुख्यमन्त्री अवदत् यत् जम्मू-कश्मीरे त्रिरङ्गध्वजस्य भारतीय-संविधानस्य च सम्मानार्थं डॉ.मुखर्जी सङ्घर्षम् अकरोत्। सः लालचौक-स्थले त्रिरङ्गध्वजम् आरोपयितुं साहसं प्रदर्शितवान् तथा ‘एकस्मिन् देशे द्वौ ध्वजौ, द्वौ प्रधानौ, द्वे विधाने न चलिष्यतः’ इति घोषम् उद्घोषितवान्। धारा-३७०-कारणात् जम्मू-कश्मीर-प्रदेशाय विशेष-दर्जा प्रदत्तः आसीत् तथा देशस्य अन्येषां भागानां जनानां तत्र गन्तुं प्रवेश-अनुज्ञापत्रस्य आवश्यकता आसीत्। एषा व्यवस्था देशस्य एकतायाः अनुकूला नासीत्।

रेखा-गुप्ता अवदत् यत् नेहरू-सर्वकारस्य नीतिषु असहमतिं प्रदर्श्य डॉ. मुखर्जी सर्वकारं त्यक्त्वा जनसङ्घस्य स्थापनाम् अकरोत्, यस्मात् अनन्तरं भारतीय-जनता-पक्षस्य उदयः अभवत्। धारा-३७०-निरसनार्थं तेन व्यापकं जनान्दोलनं प्रारब्धम्, यस्य परिणामं देशः परवर्तिकाले दृष्टवान्।

देहली-भाजपा-अध्यक्षः हर्ष-मल्होत्रा अवदत् यत् डॉ.मुखर्जी केवलं विचारान् न प्रदत्तवान्, अपितु तान् स्वजीवने चरितार्थीकृतवान्। सः अवदत् यत् अल्पवयसि एव कलकत्ता-विश्व-विद्यालयस्य कुलपतित्वं प्राप्तुं तस्य असाधारण-प्रतिभायाः नेतृत्व-क्षमतायाश्च प्रमाणम् आसीत्।

/ अंशु गुप्ता