नाटो-शिखर-सम्मेलने रक्षा-व्ययवृद्धिः यूक्रेनदेशाय निरन्तर-समर्थनं च भविष्यतः प्रमुख-विषयौ : मार्क-रूटे
अङ्कारा, ०६ जुलाईमासः (हि.स.)। नाटो-सङ्घस्य महासचिवः मार्क-रूटे तुर्कियेदेशस्य राजधान्यां अङ्कारा-नगरे मङ्गलवासरात् आरभ्यमाणात् नाटो-शिखर-सम्मेलनात् पूर्वं सोमवासरे अवदत् यत् अस्य सम्मेलनस्य मुख्योद्देश्यं सदस्य-देशानां कृते रक्षा-व्ययवृद्धेः स्पष्
नाटो-शिखर-सम्मेलने रक्षा-व्ययवृद्धिः यूक्रेनदेशाय निरन्तर-समर्थनं च भविष्यतः प्रमुख-विषयौ : मार्क-रूटे


अङ्कारा, ०६ जुलाईमासः (हि.स.)। नाटो-सङ्घस्य महासचिवः मार्क-रूटे तुर्कियेदेशस्य राजधान्यां अङ्कारा-नगरे मङ्गलवासरात् आरभ्यमाणात् नाटो-शिखर-सम्मेलनात् पूर्वं सोमवासरे अवदत् यत् अस्य सम्मेलनस्य मुख्योद्देश्यं सदस्य-देशानां कृते रक्षा-व्ययवृद्धेः स्पष्टां, दृढां, विश्वसनीयां च योजनां निर्मातुम् अस्ति। तेन उक्तं यत् गतवर्षे हेग-नगरे निर्धारितस्य सकल-गृह-उत्पादस्य पञ्च-प्रतिशत-रक्षा-व्यय-लक्ष्यस्य दिशि सदस्य-देशैः उल्लेखनीया प्रगतिः कृता।

पत्रकार-सम्मेलने मार्क-रूटे अवदत् यत् नाटो-सदस्य-देशानां रक्षा-निवेशे वर्षानुवर्षं प्रायः विंशति-प्रतिशत-वृद्धिः अभवत्। तेन उक्तं यत् बहुवर्षीय-अल्प-निवेशस्य अनन्तरम् इदानीं सङ्घटनं वास्तविक-सैन्य-क्षमतानां निर्माणं करोति। तथापि तेन सावधानता प्रकटिता यत् भविष्यस्य आव्हानानां सम्मुखिनं कर्तुं अधिक-सैनिकानाम्, अतिरिक्त-संसाधनानां, सुदृढस्य रक्षा-औद्योगिक-आधारस्य च आवश्यकता भविष्यति।

यूक्रेनदेशाय समर्थनं निरन्तरं भविष्यति

मार्क-रूटे अवदत् यत् नाटो-सहयोगी-देशाः रक्षा-उत्पादन-वृद्ध्यर्थम् अरबुद-डॉलर-परिमितानां नूतन-रक्षा-अनुबन्धानां घोषणां करिष्यन्ति। तेन उक्तं यत् रूसदेशः निरन्तरं यूक्रेनदेशस्य नगरेषु ड्रोन-विमानैः प्रक्षेपास्त्रैश्च आक्रमणं करोति, अतः यूक्रेनदेशाय विशेषतः वायु-रक्षा-प्रणाली-सहितं आवश्यकं सैन्य-सहाय्यं निरन्तरं प्रदातव्यम्। तेन उक्तं यत् यूक्रेनदेशः स्वसैन्यस्य शौर्येण, समर्पणेन, सामरिक-क्षमतया च युद्धभूमेः परिस्थितीन् परिवर्तयति, किन्तु तस्मै सहयोगी-देशानां निरन्तर-समर्थनस्य आवश्यकता वर्तते।

कीव-नगरस्य आक्रमणेन 'पुतिनस्य निराशा' प्रकटते

रूसदेशेन कीव-नगरे कृतस्य अर्वाचीन-आक्रमणस्य विषये प्रतिक्रियां दत्त्वा मार्क-रूटे अवदत् यत् एतदाक्रमणं दर्शयति यत् राष्ट्रपतिः व्लादिमीर-पुतिनः निराशः अस्ति। तस्य मते यूक्रेनदेशेन रूसदेशस्य अर्थव्यवस्थायाः क्षतिः कृता, रूसदेशस्य अन्तर्भागेषु गम्भीराणि आक्रमणानि कृतानि, रूसीय-सैन्यस्य प्रगतिः च बहुधा निरुद्धा। तेन उक्तं यत् निर्दोष-नागरिकान् आधारभूत-संरचनाश्च लक्ष्यीकृत्य युद्धे विजयः न प्राप्यते।

ट्रम्पस्य भूमिकायाः प्रशंसा

अमेरिकी-राष्ट्रपतिः डोनाल्ड-ट्रम्पः तथा नाटो-सङ्घस्य सम्बन्धानां विषये पृष्टे मार्क-रूटे तस्य प्रशंसाम् अकरोत्। तेन उक्तं यत् डोनाल्ड-ट्रम्पस्य नेतृत्वेन यूरोपीय-देशाः कनाडा च रक्षा-व्ययं वर्धयितुं प्रेरिताः अभवन्। तेन उक्तं यत् ड्वाइट-आइजनहावरः अनन्तरं डोनाल्ड-ट्रम्पः प्रथमः अमेरिकी-राष्ट्रपतिः अस्ति, येन यूरोपीय-सहयोगिनः अमेरिकादेशस्य तुल्यं रक्षा-व्ययं वर्धयितुं प्रेरिताः। तेन एतत् बहुदशकेभ्यः प्रलम्बितं लक्ष्यं कथितम्।

अमेरिकी-सैन्य-सज्जाया: पुनरवलोकनम्

अमेरिकादेशेन स्वस्य सैन्य-सज्जाया: पुनरवलोकनस्य विषये मार्क-रूटे अवदत् यत् एतेन नाटो-सङ्घस्य योजना अधिका यथार्थवादी भविष्यति। तेन उक्तं यत् यदि इण्डो-पैसिफिक्-क्षेत्रे यूरो-अटलाण्टिक्-क्षेत्रे च एककाले एव संघर्षः भवेत्, तर्हि अमेरिकादेशः कियत् सैन्य-सहयोगं दातुं समर्थः भविष्यति इति विषये अधुना अधिकं स्पष्टम् आकलनं जातम्। तेन उक्तं यत् यूरोपस्य स्वसुरक्षायै पूर्णतया अमेरिकादेशे आश्रितत्वं दीर्घकाले न स्थास्यति। भविष्ये उभयपक्षयोः मध्ये सन्तुलिता सुरक्षा-सहभागिता विकसितव्या भविष्यति।

Hindusthan Samachar / Divya Ranjan