वन-महोत्सव-सप्ताहस्य अन्तर्गतं नैनीताले वृक्षारोपणम्, ‘एकः पादपः मातुः नाम्ना’ अभियानाय बलम्
नैनीताल-नगरम्, ०६ जुलाईमासः (हि.स.)। वन-महोत्सव-सप्ताहस्य अन्तर्गतं जनपद-विधिक-सेवा-प्राधिकरणेन, वन-विभागेन तथा डीएसबी-परिसरे सोमवासरे पृथक्-पृथक्-कार्यक्रमेषु वृहद्-स्तरे वृक्षारोपणं कृतम्। अस्मिन्नवसरे पर्यावरण-संरक्षणस्य सन्देशं प्रदाय द्विशताधि
डीएसबी परिसर में पौधे रोपते प्राध्यापक।


वन महोत्सव के तहत पौधे रोपते न्यायिक अधिकारी एवं ग्रामीण।


नैनीताल-नगरम्, ०६ जुलाईमासः (हि.स.)। वन-महोत्सव-सप्ताहस्य अन्तर्गतं जनपद-विधिक-सेवा-प्राधिकरणेन, वन-विभागेन तथा डीएसबी-परिसरे सोमवासरे पृथक्-पृथक्-कार्यक्रमेषु वृहद्-स्तरे वृक्षारोपणं कृतम्। अस्मिन्नवसरे पर्यावरण-संरक्षणस्य सन्देशं प्रदाय द्विशताधिकाः पादपाः रोपिताः। तथा च ‘एकः पादपः मातुः नाम्ना’ इत्यभियानस्य अन्तर्गतं जनाः पादप-संरक्षणस्य सङ्कल्पं ग्रहीतुं प्रोत्साहिताः।

उत्तराखण्ड-राज्य-विधिक-सेवा-प्राधिकरणस्य निर्देशानुसारं जनपद-न्यायाधीशस्य तथा जनपद-विधिक-सेवा-प्राधिकरणस्य अध्यक्षस्य प्रशान्त-जोशी-महोदयस्य मार्गदर्शने सिविल-न्यायाधीश-इत्यनया तथा जनपद-विधिक-सेवा-प्राधिकरणस्य सचिवया पारुल-थपलियाल-महोदयया नेतृत्वे वन-विभागस्य सहयोगेन बजून्, पाटीयाखान तथा फगुनिया-क्षेत्रेषु वृहद्-वृक्षारोपण-कार्यक्रमः आयोजितः।

अस्मिन् कार्यक्रमे वन-दरोगा अशोक-कुमार-आर्यः, ग्रामप्रधाना जानकी, यशवन्त-कुमारः, वन-आरक्षी हरीश-सिंहः, मनोज-बलसुनी तथा ग्रामवासिनः सहभागिनः अभवन्। तैः पद्म, त्रिलोच, पाङ्गर, पुतली तथा बाँज-प्रजातीनां द्विशताधिकाः पादपाः रोपिताः। अपरत्र डीएसबी-परिसरस्य वनस्पति-विज्ञान-विभागे ‘एकः पादपः मातुः नाम्ना’ इत्यभियानस्य अन्तर्गतं विज्ञान-सङ्कायस्य अध्यक्षः प्रो. संजय-पन्तः, सहायक-लेखाधिकारी हिमांशु-मठपालः तथा विभागाध्यक्षः प्रो. ललित-तिवारी देवदारु-बाँज-बुरांश-पद्म- तथा हाइड्रेञ्जिया-प्रजातीनां पादपान् अरोपयन्।

प्रो. संजय-पन्तः वृक्षारोपणं जीवनस्य सार्थक: प्रयत्न: इति वर्णयन् प्रकृति-संरक्षणस्य सन्देशम् अयच्छत्। हिमांशु-मठपालः एतत् मानवस्य महद्दायित्वम् इति अवदत्।

प्रो. ललित-तिवारी अवदत् यत् ‘एकः पादपः मातुः नाम्ना’ इत्यभियानं भारत-सर्वकारस्य पर्यावरण-संरक्षणाय मातृ-सम्मानाय च सम्बद्धा महत्त्वपूर्णा पहल अस्ति। कार्यक्रमार्थं सर्वे पादपाः वन-क्षेत्राधिकारी आनन्द-लाल-आर्येण उपलब्धाः कृताः। कार्यक्रमे डॉ. भारत-घनश्यालः, डॉ. नवीन-पाण्डेयः, नन्दा-बल्लभ-पालीवालः, वसुधरा, लता-नितवालः, शीतल-कोरङ्गा, विशालः, लीला च अन्ये अपि बहवः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan