राष्ट्रिययुवसंसदप्रतियोगितायाः 2024-25 पुरस्कार वितरण समारोहो मंगलवासरे
नव दिल्ली, 06 जुलाईमासः (हि.स.)। संसद्भवने मङ्गलवासरे विश्वविद्यालयानां महाविद्यालयानां च कृते २०२४ २५ तमवर्षस्य सप्तदशम्याः राष्ट्रिययुवसंसत्प्रतियोगितायाः पुरस्कारवितरणसमारोहः आयोजयिष्यते। संसदीयकार्यमन्त्रालयानुसारं विधिन्यायमन्त्री स्वतन्त्र
प्रतीकात्मक चित्र


नव दिल्ली, 06 जुलाईमासः (हि.स.)।

संसद्भवने मङ्गलवासरे विश्वविद्यालयानां महाविद्यालयानां च कृते २०२४ २५ तमवर्षस्य सप्तदशम्याः राष्ट्रिययुवसंसत्प्रतियोगितायाः पुरस्कारवितरणसमारोहः आयोजयिष्यते।

संसदीयकार्यमन्त्रालयानुसारं विधिन्यायमन्त्री स्वतन्त्रप्रभारः अर्जुनराममेघवालः समारोहस्य अध्यक्षतां करिष्यति। सः प्रतियोगितायाम् उत्कृष्टप्रदर्शनं कृतवद्भ्यः पुरस्कारविजेतृविश्वविद्यालयेभ्यः महाविद्यालयेभ्यः छात्रेभ्यश्च पुरस्कारान् वितरिष्यति। अस्मिन् अवसरे जम्मूकश्मीरे स्थितस्य कश्मीरविश्वविद्यालयस्य छात्राः पुरस्कारवितरणसमारोहस्य समये स्वयुवसंसदः बैठकस्य पुनः प्रदर्शनं करिष्यन्ति। एते छात्राः प्रतियोगितायां प्रथमस्थानं प्राप्तवन्तः आसन्।

युवसंसद्योजनायाः उद्देश्यम् युवपीढ्याम् आत्मानुशासनस्य विचाराणां निष्पक्षाभिव्यक्तेः संसदः कार्यप्रणाल्याः ज्ञानस्य वादविवादप्रविधीनां परिचयस्य आत्मविश्वासस्य नेतृत्वक्षमतायाः प्रभाविभाषणकलायाश्च विकासः अस्ति।

राष्ट्रियस्तरे प्रतियोगितायां प्रथमस्थानप्राप्त्यर्थम् अटलबिहारीवाजपेयीचलसंसदीयफलकं प्रदास्यते तथा एषा विजयोपाधिः जम्मूकश्मीरे स्थिताय कश्मीरविश्वविद्यालयाय प्रदास्यते। प्रतियोगितायां समूहस्तरे प्रथमस्थानं प्राप्तवद्भ्यः ७ विश्वविद्यालयेभ्यः महाविद्यालयेभ्यश्च मन्त्रिणा समूहस्तरीयविजेतृविजयोपाधिः अपि प्रदास्यते। एतेषु पञ्जाबस्य जालन्धरस्थं डी ए वी महाविद्यालयम् पश्चिमबङ्गालस्य कोलकातास्थं जादवपुरविश्वविद्यालयम् महाराष्ट्रस्य कोल्हापुरस्थं शिवाजीविश्वविद्यालयम् बठिण्डास्थं पञ्जाबकेन्द्रीयविश्वविद्यालयम् कर्णाटकस्य बेङ्गलूरुस्थं एस एस एम आर वी महाविद्यालयम् बिहारस्य पटनास्थं चाणक्यराष्ट्रियविधिविश्वविद्यालयम् हरियाणस्य कुरुक्षेत्रस्थं कुरुक्षेत्रविश्वविद्यालयं च सम्मिलितानि सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani