Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे तिब्बतीधर्मगुरवे दलाईलामाय जन्मदिनस्य शुभकामनाः प्रदाय तस्य शान्तेः सद्भावस्य वैश्विककल्याणस्य च सन्देशस्य प्रशंसां कृतवान्। प्रधानमन्त्री तस्य उत्तमस्वास्थ्यस्य दीर्घायुषश्च कामनां कुर्वन् अवदत् यत् तस्य नैतिकम् आध्यात्मिकं च नेतृत्वं विश्वभरस्य जनानां कृते प्रेरणास्रोतः अभवत्।
प्रधानमन्त्री सामाजिकसञ्चारमञ्चे एक्स इत्यत्र स्वसन्देशे अवदत् परमपावनाय दलाईलामाय जन्मदिनस्य हार्दिक्यः शुभकामनाः। शान्तेः सद्भावस्य च तस्य सन्देशः विश्वभरस्य जनानां कृते प्रेरणास्रोतः अभवत्। तस्य नैतिकी आध्यात्मिकी च शक्तिः तथा वैश्विककल्याणं प्रति तस्य प्रतिबद्धता प्रशंसनीया अस्ति। अहं तस्य दीर्घस्य स्वस्थस्य च जीवनस्य कामनां करोमि।
-----------
हिन्दुस्थान समाचार / Dheeraj Maithani