Enter your Email Address to subscribe to our newsletters

गौरेला-पेंड्रा-मरवाही 06 जुलाईमासः (हि.स.)।
प्रधानमन्त्रिकृषकसम्माननिधियोजनायाः प्रभाविकार्यान्वयनस्य अन्तर्गतं जी पी एम जनपदे उल्लेखनीया प्रगतिः अभिलिखिता अस्ति। २०२६ तमवर्षस्य जूनमासस्य ३० दिनाङ्कस्य स्थित्यनुसारं जनपदस्य आहत्य ४० सहस्रं ८५० कृषकेषु ३३ सहस्रं ५९ कृषकाणां पञ्जीकरणं कृतम् अस्ति येषु ३२ सहस्रं ८६५ कृषकाः योजनया लाभान्विताः अभवन्। एवं जनपदे योजनायाः कार्यान्वयने ८० प्रतिशतं प्रगतिः अभिलिखिता अस्ति।
प्रधानमन्त्रिकृषकसम्माननिधियोजना भारतसर्वकारस्य प्रमुखा कृषककल्याणकारी योजना अस्ति यस्याः अन्तर्गतं पात्रकृषकपरिवारेभ्यः कृषिकार्याणां आवश्यककृषिनिवेशस्य च कृते प्रतिवर्षं ६ सहस्ररूप्यकाणाम् आर्थिकसहायता तिसृषु समानासु किस्तिषु प्रत्यक्षलाभान्तरणमाध्यमेन तेषां अधिकोषलेखासु प्रत्यक्षरूपेण प्रदीयते।
उपकृषिसञ्चालकः सत्यजीतकंवरः अद्य सोमवासरे अवदत् यत् अवशिष्टपात्रकृषकाणां पञ्जीकरणस्य ई के वाई सी प्रक्रियायाः आधारस्य अधिकोषलेखानां च सत्यापनप्रक्रिया निरन्तरं प्रचलति येन अधिकाधिकपात्रकृषकेभ्यः योजनायाः लाभः सुनिश्चितः कर्तुं शक्येत। सः अवदत् यत् अवशिष्टेषु २० प्रतिशतप्रकरणेषु शासकीयसेवकाः आयकरदातारः मृतकृषकाः अन्यासाम् अपात्रश्रेणीनां प्रकरणानि लम्बितपञ्जीकरणानि च सम्मिलितानि सन्ति।
जनपदप्रशासनेन जनपदस्य सर्वेभ्यः पात्रकृषकेभ्यः आह्वानं कृतम् अस्ति यत् यैः अद्यावधि योजनायां पञ्जीकरणं न कारितम् अथवा ई के वाई सी प्रक्रिया आवश्यकप्रपत्राणाम् अद्यतनीकरणं च न कारितम् ते शीघ्रमेव सम्बन्धितकृषिविभागस्य जनपदपञ्चायतस्य अथवा लोकसेवाकेन्द्रस्य माध्यमेन आवश्यकप्रक्रियां पूर्णां कारयेयुः येन ते प्रधानमन्त्रिकृषकसम्माननिधियोजनायाः लाभात् वञ्चिताः न भवेयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani