Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 06 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी षड्दिवसीयायाः त्रिदेशीययात्रायाः प्रथमचरणे सोमवासरे इण्डोनेशियादेशं प्राप्तवान्। इण्डोनेशियादेशं सम्प्राप्तस्य प्रधानमन्त्री नरेन्द्रमोदिनः राष्ट्रपतिः प्रबोवो सुबियांतो विमानपत्तने हार्दिकं स्वागतं कृतवान्।
प्रधानमन्त्री मोदी इण्डोनेशियादेशं प्राप्त्य विमानपत्तने स्वसम्मानार्थं स्थानीयकलाकारैः प्रस्तुतं सांस्कृतिककार्यक्रममपि दृष्टवान्। राष्ट्रपतिना सह विदेशमन्त्री, सचिवालयमन्त्री, मन्त्रिमण्डलसचिवः तथा अन्ये चत्वारः मन्त्रिणोऽपि प्रधानमन्त्री मोदिनः स्वागतकार्यक्रमे उपस्थिताः आसन्।
प्रधानमन्त्रिणो मोदिनः एषा यात्रा जुलाईमासस्य षष्ठदिनाङ्कात् एकादशदिनाङ्कपर्यन्तं इण्डोनेशिया, ऑस्ट्रेलिया, न्यूजीलैण्ड इति त्रयाणां देशानां कृते निर्धारितास्ति। इण्डोनेशियादेशे सः राष्ट्रपतिना प्रबोवो सुबियांतो इत्यनेन सह द्विपक्षीयवार्तां करिष्यति तथा च उभयदेशीयसहभागितायां जातायाः प्रगतेः समीक्षां करिष्यति। एतदतिरिक्तं सः भारतीयसमुदायस्य जनैः सह मिलिष्यति तथा योग्याकार्तानगरे स्थितस्य प्रसिद्धस्य प्रम्बाननमन्दिरपरिसरस्य भ्रमणं करिष्यति।
इण्डोनेशियादेशानन्तरं प्रधानमन्त्री मोदी ऑस्ट्रेलियादेशं गमिष्यति। तत्र मेलबर्ननगरे सः प्रधानमन्त्री एन्थनी अल्बानीज इत्यनेन सह रक्षा, सुरक्षा, व्यापार, निवेश, शिक्षा तथा जनानां पारस्परिकसम्बन्धानां विषये चर्चां करिष्यति। तत्र सः भारतीयसमुदायेन सह संवादमपि करिष्यति।
तदनन्तरं प्रधानमन्त्री न्यूजीलैण्डदेशं गमिष्यति। तत्र ऑकलैण्डनगरे सः प्रधानमन्त्री क्रिस्टोफर लक्सन इत्यनेन सह आर्थिकव्यापारिकवाणिज्यिकसम्बन्धान् अधिकं सुदृढान् कर्तुं वार्तां करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani