डॉ. श्यामा प्रसाद मुखर्जिनः आदर्श विकसित भारतस्य मार्गं कुरुते आलोकितम् : प्रधानमंत्री मोदी
नवदिल्ली, 06 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी डा श्यामाप्रसादमुखर्जिनः पञ्चविंशत्यधिकशततम्यां जयन्त्यां तस्मै श्रद्धाञ्जलिं समर्पयन् अवदत् यत् सः भारतस्य विलक्षणतमेषु राष्ट्रनिर्मातृषु अन्यतमः आसीत् यस्य सम्पूर्णं जीवनं विद्वत्तायाः
डॉ. श्यामा प्रसाद मुखर्जी (फाइल फोटो)।


नवदिल्ली, 06 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी डा श्यामाप्रसादमुखर्जिनः पञ्चविंशत्यधिकशततम्यां जयन्त्यां तस्मै श्रद्धाञ्जलिं समर्पयन् अवदत् यत् सः भारतस्य विलक्षणतमेषु राष्ट्रनिर्मातृषु अन्यतमः आसीत् यस्य सम्पूर्णं जीवनं विद्वत्तायाः साहसस्य राष्ट्रसेवायां च अटूटसमर्पणस्य प्रतीकम् आसीत्। सः अवदत् यत् विकसितभारतस्य यात्रायां डा मुखर्जीमहोदयस्य दूरदर्शिचिन्तनम् अद्यापि देशस्य मार्गदर्शनं करोति।

प्रधानमन्त्री अद्य एक्स इति सामाजिकमाध्यमे अलिखत् यत् डा श्यामाप्रसादमुखर्जी भारतस्य एकतायै गरिमायै प्रगतये च स्वजीवनं समर्पितवान्। सः उत्कृष्टः चिन्तकः शिक्षाविद् च आसीत् यः नवाचारस्य भविष्याभिमुखशिक्षायाश्च समर्थनं कृतवान्। प्रधानमन्त्री अवदत् यत् उद्योगमन्त्रिरूपेण सः औद्योगिकात्मनिर्भरतायाः सुदृढां आधारशिलां स्थापितवान् तथा च पारम्परिकोद्योगानाम् आजीविकासाधनानां च संरक्षणे अपि बलं दत्तवान्।

प्रधानमन्त्री अवदत् यत् बङ्गालदुर्भिक्षकाले डा मुखर्जीमहोदयेन कृताः मानवीयप्रयत्नाः तस्य संवेदनशीलतायाः करुणायाश्च परिचायकाः आसन्। सः अवदत् यत् भारतस्य एकतायाः अखण्डतायाश्च प्रति तस्य अडिगसङ्कल्पः सदैव देशवासिनां कृते प्रेरणास्रोतः भविष्यति। विकसितभारतस्य निर्माणदिशि अग्रे गच्छतः देशस्य कृते तस्य दूरदर्शिता अद्यापि मार्गम् आलोकयति।

अन्यस्मिन् सन्देशे प्रधानमन्त्री अवदत् यत् भारतवर्षस्य एकतायै अखण्डतायै स्वाभिमानाय च डा श्यामाप्रसादमुखर्जीमहोदयस्य बलिदानं प्रत्येकं संततिं प्रेरयिष्यति। प्रधानमन्त्री सुभाषितम् अपि साझा कृतवान्

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।

नास्ति येषां यशःकाये जरामरणजं भयम्॥

अस्य सुभाषितस्य अर्थः अस्ति यत् श्रेष्ठकर्माणि कुर्वन्तः विद्वांसः महानुभावाश्च वस्तुतः अमराः भवन्ति। तेषां यशः कदापि न नश्यति तथा च तस्मिन् कालस्य जरायाः मृत्युश्च कोऽपि प्रभावः न भवति। तेषाम् आदर्शाः कार्याणि च सदैव समाजस्य मार्गदर्शनं कुर्वन्ति। एतस्मादेव कारणात् डा श्यामाप्रसादमुखर्जीमहोदयेन राष्ट्रहिताय कृतं योगदानम् अद्यापि देशवासिनां कृते प्रेरणास्रोतः वर्तते।

---------------

Hindusthan Samachar / Dheeraj Maithani