Enter your Email Address to subscribe to our newsletters

नवदेहली, ०६ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य आरभ्य इण्डोनेशिया, ऑस्ट्रेलिया तथा न्यूजीलैण्ड-इति त्रयाणां राष्ट्राणां यात्रां करिष्यति। यात्रायाः पूर्वं निर्गमनात् पूर्वं सः अवदत् यत् प्रथमचरणे सः इण्डोनेशियादेशं गमिष्यति। अस्याः यात्रायाः माध्यमेन भारतस्य इण्डोनेशियादेशस्य च सम्बन्धाः अधिकं दृढाः भविष्यन्ति इति तेन आशा व्यक्ता। तेन उक्तं यत् भारतस्य इण्डोनेशियादेशस्य च मध्ये गहनाः सांस्कृतिकाः जन-जनसम्बद्धाश्च सम्बन्धाः सन्ति।
प्रधानमन्त्री नरेन्द्रमोदी अवदत्— “अहं जुलाईमासस्य ६ दिनाङ्कात् ११ दिनाङ्कपर्यन्तं इण्डोनेशिया, ऑस्ट्रेलिया तथा न्यूजीलैण्ड-इति त्रयाणां राष्ट्राणां यात्रां करिष्यामि। इण्डोनेशिया-गणराज्यस्य राष्ट्रपतिः प्राबोवो-सुबियान्तो-महोदयस्य निमन्त्रणेन अहं जुलाईमासस्य ६ दिनाङ्कात् ८ दिनाङ्कपर्यन्तं इण्डोनेशियादेशस्य यात्रां करिष्यामि। २०१८ तमे वर्षे मम प्रथम-इण्डोनेशियायात्रायां भारतेन इण्डोनेशियया च स्वीयौ द्विपक्षीयसम्बन्धौ ‘व्यापक-रणनीतिक-सहभागिता’ इत्यस्य स्तरं प्रति उन्नीतौ। तस्य स्तरस्य प्राप्तेः अनन्तरम् एषा मम प्रथमा द्विपक्षीययात्रा अस्ति। एषा यात्रा राष्ट्रपतिः प्राबोवो-महोदयस्य राजकीययात्रायाः अनन्तरं भवति। सः २०२५ तमस्य वर्षस्य जनवरीमासस्य २६ दिनाङ्के अस्माकं गणतन्त्रदिवससमारोहे मुख्यातिथिरासीत्।”
तेन उक्तं— “भारतस्य इण्डोनेशियादेशस्य च मध्ये सांस्कृतिकाः जनसम्बन्धाश्च सन्ति। मम एषा यात्रा अस्माकं बहु-आयामी-सहभागितायाः सर्वान् पक्षान् अधिकं सुदृढान् करिष्यति। यात्राकाले अहम् इण्डोनेशियादेशे निवसद्भिः भारतीयसमुदायस्य सदस्यैः सह मिलिष्यामि तथा राष्ट्रपतिना प्राबोवो-महोदयेन सह योग्याकार्ता-नगरे स्थितस्य प्रम्बानन्-मन्दिर-परिसरस्य भ्रमणमपि करिष्यामि।”
प्रधानमन्त्री अवदत्— “इण्डोनेशियात् अनन्तरम् ऑस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थनी-अल्बानीज-महोदयस्य निमन्त्रणेन अहं मेलबर्न-नगरं गमिष्यामि। मम एषा यात्रा अस्माकं ‘व्यापक-रणनीतिक-सहभागितां’ सुदृढां करिष्यति। प्रधानमन्त्री अल्बानीज-महोदयेन सह वार्तालापे रक्षा-सुरक्षा, व्यापारः, निवेशः, शिक्षा, जनानां आवागमनम् तथा जन-जनसम्बन्धाः इत्यादिषु क्षेत्रेषु सहयोगस्य विस्तारविषये चर्चा भविष्यति। मेलबर्न-नगरे निवसद्भिः भारतीयसमुदायस्य सदस्यैः सह संवादस्य अवसरमपि मे भविष्यति। तत्र निवसन्तः भारतीयाः अस्माकं रणनीतिकसहभागितायाः महत्त्वपूर्णः स्तम्भः सन्ति।”
तेन उक्तं— “मेलबर्न-नगरात् अनन्तरं न्यूजीलैण्डदेशस्य प्रधानमन्त्री क्रिस्टोफर-लक्सन-महोदयस्य निमन्त्रणेन अहम् ऑकलैण्ड-नगरं गमिष्यामि। मम एषा यात्रा २०२५ तमस्य वर्षस्य मार्चमासे सम्पन्नायाः प्रधानमन्त्री लक्सन-महोदयस्य भारतयात्रायाः अनन्तरं द्विपक्षीयसम्बन्धेषु प्राप्तां गतिमधिकां करिष्यति। अहं प्रधानमन्त्री लक्सन-महोदयेन सह आर्थिक-व्यापारिक-वाणिज्यिक-सम्बन्धानां संवर्धनविषये चर्चां करिष्यामि। भारतेन न्यूजीलैण्डेन च मुक्तव्यापार-सन्धे: माध्यमेन द्विपक्षीयव्यापार-वाणिज्यसम्बन्धानां सुदृढीकरणस्य संकल्पः कृतः। अस्माकं द्विपक्षीयसम्बन्धेषु भारतीयसमुदायस्य महत्त्वपूर्णं योगदानम् अस्ति। यात्राकाले जीवनस्य सर्वेषु क्षेत्रेषु उल्लेखनीयां सफलतां प्राप्तवन्तं विशालं भारतीयसमुदायं सम्बोधितुं अहम् उत्सुकः अस्मि।”
प्रधानमन्त्री नरेन्द्रमोदी अन्ते अवदत्— “पूर्व-दक्षिण-हिन्दमहासागरक्षेत्रे स्थितानाम् इण्डोनेशिया, ऑस्ट्रेलिया तथा ततः परं न्यूजीलैण्डदेशस्य मम एषा यात्रा भारतस्य ‘एक्ट-ईस्ट-नीतेः’, ‘महासागर-दृष्टेः’ तथा मुक्तस्य उदारस्य च इण्डो-पैसिफिक-प्रदेशं प्रति अस्माकं दृष्टिकोणं अधिकं सुदृढं करिष्यति।”
Hindusthan Samachar / Divya Ranjan