२०२६ तमे वर्षे भारत-रूसदेशयोः व्यापारः ७०-अर्बुद-डॉलर-परिमाणं प्राप्स्यति इति आशा - राजदूतः विनयकुमारः
मास्कोनगरम्, ०६ जुलाईमासः (हि.स./रिया-नोवोस्ती)। रूसदेशे भारतस्य राजदूतः विनयकुमारः सोमवासरे अवदत् यत् २०२६ तमे वर्षे रूस-भारतयोः द्विपक्षीय-व्यापारस्य परिमाणं ७०-अर्बुद-डॉलर-पर्यन्तं प्राप्स्यति। राजदूतः विनयकुमारः ‘इनोप्रोम्-२०२६’ इत्यस्य अन्तार
सांकेतिक


मास्कोनगरम्, ०६ जुलाईमासः (हि.स./रिया-नोवोस्ती)। रूसदेशे भारतस्य राजदूतः विनयकुमारः सोमवासरे अवदत् यत् २०२६ तमे वर्षे रूस-भारतयोः द्विपक्षीय-व्यापारस्य परिमाणं ७०-अर्बुद-डॉलर-पर्यन्तं प्राप्स्यति।

राजदूतः विनयकुमारः ‘इनोप्रोम्-२०२६’ इत्यस्य अन्ताराष्ट्रिय-औद्योगिक-प्रदर्शिन्यां पत्रकारैः सह सम्भाषमाणः अवदत्, “गत-द्वित्र-मासेषु वयं व्यापारस्य या गतिः प्रवृत्तिश्च दृष्टवन्तः, तया ज्ञायते यत् २०२६ तमे वर्षे व्यापारस्य परिमाणं प्रायः ७०-अर्बुद-डॉलर-पर्यन्तं प्राप्स्यति।”

भारतीय-राजदूतः पुनः अवदत् यत् २०३० तमे वर्षे मास्को-नवदेहल्योः मध्ये व्यापारस्य परिमाणं वर्धमानं १००-अर्बुद-डॉलर-पर्यन्तं भविष्यति इति अनुमानम् अस्ति। तेन उक्तं यत् उभयदेशयोः व्यापारिक-सहकार्यस्य प्रमुख-क्षेत्राणि महत्त्वपूर्ण-खनिजानि, धातवः, उच्च-प्रौद्योगिकी, कृषि-क्षेत्रम् तथा अन्तरिक्ष-क्षेत्रम् इति सन्ति।

विनयकुमारः अवदत्, “भारतस्य प्रमुख-शिक्षण-संस्थानानि अपि उच्च-प्रौद्योगिकी-क्षेत्रे रूसी-सङ्गठनैः सह सहकार्यं वर्धयितुं कार्यं कुर्वन्ति।”

‘इनोप्रोम्-२०२६’ इति अन्ताराष्ट्रिय-औद्योगिक-प्रदर्शिनी जुलाईमासस्य ६ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं येकातेरिनबर्ग-नगरे आयोज्यते। अस्मिन् वर्षे इण्डोनेशिया अस्याः प्रदर्शिन्याः सहभागी-राष्ट्रम् अस्ति। समग्ररूपेण अस्मिन् कार्यक्रमे ६६ राष्ट्राणां प्रतिनिधयः सहभागित्वं कुर्वन्ति।

/ अंशु गुप्ता