Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 जुलाईमासः (हि.स.)।
केन्द्रीयगृहसहकारितामन्त्री अमितशाहः सोमवासरे अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे अधुना देशे सहकारितया सह द्वितीयश्रेण्याः व्यवहारः न भवितुम् अर्हति। सः अवदत् यत् पञ्चवर्षपूर्वं स्थापितेन स्वतन्त्रसहकारितामन्त्रालयेन उपेक्षिताय सहकारितान्दोलनाय नूतना परिचितिः प्रदत्ता तथा एतत् स्पष्टं कृतं यत् मन्त्रालयः राज्यानाम् अधिकारेषु हस्तक्षेपाय न अपितु तानि सुदृढानि कर्तुं सहकारीसंस्थाः आधुनिकाः पारदर्शिकाः प्रविधिसक्षमाः प्रतिस्पर्धिन्यश्च कर्तुं कार्यं करोति।
सहकारितामन्त्रालयस्य पञ्चमे स्थापनादिवसे अत्र आयोजितं समारोहं सम्बोधयन् शाहः अवदत् यत् अद्यतः ठीकं पञ्चवर्षपूर्वं प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वतन्त्रसहकारितामन्त्रालयस्य गठनं कृत्वा देशस्य सहकारितया सम्बद्धानां त्रिंशत्कोट्यधिकजनानां सार्धाष्टलक्षाधिकसहकारीसंस्थानां च पञ्चसप्ततिवर्षपुरातनी मागधिका पूर्णा कृता। सः अवदत् यत् अनेन सहकारितान्दोलनाय नूतनं जीवनं प्राप्तं तथा आगामीशताब्द्यै सुदृढः आधारः उपलब्धः।
सः अवदत् यत् मन्त्रालयस्य गठनसमये एषा आशङ्का प्रकटिता आसीत् यत् सहकारिता राज्यविषयः अस्ति अतः केन्द्रसर्वकारः राज्यानाम् अधिकारेषु हस्तक्षेपं करिष्यति किन्तु विगतपञ्चवर्षेषु केनापि राज्येन एतादृशी कापि परिवेदना न कृता। सः अवदत् यत् सहकारितामन्त्रालयस्य उद्देश्यम् राज्यानां कार्येषु सहयोगप्रदानं नीतीनां निर्माणं सहकारीसंस्थानां सशक्तीकरणं च अस्ति।
शाहः अवदत् यत् विगतपञ्चवर्षेषु सहकारीव्यवस्थाम् आधुनिकां पारदर्शिकां प्रविधिसक्षमां प्रतिस्पर्धिनीं च कर्तुं दिशि अनेकानि महत्त्वपूर्णानि पदानि गृहीतानि। सः अवदत् यत् सहकारितां केवलं प्राथमिकस्तरपर्यन्तं सीमितां न कृत्वा कृषिऋणं दुग्धव्यवसायः उर्वरकवितरणं ग्रामीणसेवाश्च राष्ट्रियस्तरपर्यन्तं सुदृढतन्त्ररूपेण विकसिताः तथा द्वितीयकतृतीयकक्षेत्रपर्यन्तम् अपि अस्य विस्तारः कृतः।
सः अवदत् यत् सहकारीसंस्थानां कृते श्रेणीनिर्धारणरूपरेखा प्रारब्धा यस्याः अन्तर्गतं विविधक्षेत्राणाम् उत्कृष्टसहकारीसमितीनाम् अभिज्ञानं कृत्वा ताः प्रोत्साहयिष्यन्ते। सहैव त्रिभुवनसहकारीविश्वविद्यालयस्य माध्यमेन अधिकोषव्यवस्था दुग्धव्यवसायः विपणनं कृषिः उर्वरकं सहकारितायाः अन्यानि क्षेत्राणि च एतेषां कृते प्रशिक्षितव्यावसायिकाः सज्जीकरिष्यन्ते। अनेन सहकारीसंस्थासु व्यावसायिकप्रबन्धनं पारदर्शिता कार्यकुशलता च वर्धिष्यन्ते तथा नियुक्तिषु भ्रष्टाचारस्य नियन्त्रणं भविष्यति।
कार्यक्रमस्य समये शाहेन अनेकासां परियोजनानाम् उद्घाटनं शिलान्यासश्च कृतः। एतेषु १३५ अन्नभण्डारणगोदामानां हस्तान्तरणं ८५ गोदामानां लोकार्पणं ४७ गोदामानां शिलान्यासश्च सम्मिलिताः। एतदतिरिक्तम् अमूलसंस्थया एन सी सी एफ संस्थया च सहकारवनस्य भूमिपूजनं तथा उत्तरप्रदेशस्य बाराबङ्कीजनपदे महाराष्ट्रस्य जलगावजनपदे च बी बी एस एस एल संस्थायाः ऊतकसंवर्धनसुविधानां भूमिपूजनम् अपि कृतम्।
अस्मिन् अवसरे एन सी डी ३ ० तथा भौगोलिकचिह्नाङ्कनचलदूरभाषानुप्रयोगः एन डी डी बी संस्थायाः दुग्धापूर्तिसमीक्षासूचनाफलकप्रवेशद्वारम् कोआपरेटिव इनपुट्स एण्ड सर्विसेज डिलीवरी मल्टी स्टेट लिमिटेड इत्यस्य अन्तर्गतं दुग्धपशूनाम् उत्पादकतावर्धनसम्बन्धिनी पहल कोआपरेटिव मिल्क प्रोड्यूसर्स आर्गनाइजेशन मल्टी स्टेट लिमिटेड तथा गोमयसहकारीसमितिमल्टी स्टेट लिमिटेड इत्येतासाम् अपि शुभारम्भः कृतः। सहैव एन यू सी एफ डी सी संस्थायाः सहकार सी बी एस इति केन्द्रीकृतमूलाधिकोषप्रणाली तथा नगरीयसहकारीअधिकोषाणां कृते कृत्रिमबुद्धिमत्ताधारितः संवादात्मकमञ्चः सहकारसहयोगी इत्यस्य अपि अनावरणं कृतम्।
समारोहस्य प्रमुखोपलब्धिषु पञ्चाशत्सहस्राणां प्राथमिककृषिऋणसमितीनां पैक्स इत्येतासाम् ई पैक्स इत्यस्मिन् रूपान्तरणं प्रमुखम् आसीत् यत् सहकारीसंस्थानां अङ्कीयसशक्तीकरणदिशि महत्त्वपूर्णं पदम् इति वर्णितम्। अस्मिन् अवसरे बीजव्यवस्थां सुदृढां कर्तुं बी बी एस एस एल तथा आई सी ए आर संस्थयोः मध्ये सहमतिज्ञापनपत्रे हस्ताक्षराणि अपि कृतानि। शाहेन दुग्धसहकारीसमितीनां कृते आदर्शोपविधीनां तथा सहकारितामन्त्रालयस्य पञ्चवर्षीयोपलब्ध्याधारितस्य पुस्तकस्य अपि विमोचनं कृतम्।
स्वसम्बोधने शाहः भारतीयजनसङ्घस्य संस्थापकस्य डा श्यामाप्रसादमुखर्जिनः १२५ तम्याः जयन्त्याः उल्लेखं कुर्वन् अवदत् यत् सः भारतीयतायाः राष्ट्रवादस्य च भावनां सुदृढां कर्तुं स्वस्य सम्पूर्णं जीवनं समर्पितवान्। सः अवदत् यत् यदि मुखर्जी न अभविष्यत् तर्हि कश्मीरस्य असमस्य पश्चिमबङ्गालस्य च इतिहासः भिन्नः भवितुम् अशक्ष्यत्। सः अवदत् यत् एकस्मिन् देशे द्वयोः विधानयोः द्वयोः प्रधानयोः द्वयोः चिह्नयोश्च विरोधे मुखर्जी स्वप्राणान् समर्पितवान् तथा प्रधानमन्त्रिणा नरेन्द्रमोदिना अनुच्छेदं ३७० निराकृत्य तस्य स्वप्नः साकारितः। सः अवदत् यत् केन्द्रसर्वकारः डा मुखर्जिनः १२५ तमीं जयन्तीं सम्पूर्णे देशे व्यापकस्तरेण आयोजयिष्यति।
कार्यक्रमे केन्द्रीयमत्स्यपालनपशुपालनदुग्धव्यवसायपञ्चायतीराजमन्त्री राजीवरञ्जनसिंहः अपरनाम ललनसिंहः राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा सहकारिताराज्यमन्त्री कृष्णपालगुर्जरः सहकारितानागरिकविमाननराज्यमन्त्री मुरलीधरमोहोलः सहकारितामन्त्रालयस्य सचिवः डा आशीषकुमारभूटानी कृषिकृषककल्याणमन्त्रालयस्य सचिवः आतिशचन्द्रः पशुपालनदुग्धव्यवसायविभागस्य सचिवः नरेशपालगङ्गवारः सहिताः विविधमन्त्रालयानां वरिष्ठाधिकारिणः राष्ट्रियसहकारीसंस्थानां सहकारीअधिकोषाणां दुग्धसमितीनां प्राथमिककृषिऋणसमितीनां सहकारिताक्षेत्रस्य च प्रतिनिधयः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani