Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 जुलाईमासः (हि.स.)।केन्द्रीयगृहसहकारितामन्त्री अमितशाहः सोमवासरे भारतीयजनसङ्घस्य संस्थापकस्य डा श्यामाप्रसादमुखर्जिनः १२५ तम्यां जयन्त्यां तस्मै श्रद्धाञ्जलिं समर्पयन् अवदत् यत् यदि मुखर्जी न अभविष्यत् तर्हि अद्य कश्मीरः भारतस्य भागः न अभविष्यत् तथा असमस्य पश्चिमबङ्गालस्य च विशालः भागः पाकिस्तानं गतः अभविष्यत्। सः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना अनुच्छेदः ३७० निराकृत्य डा मुखर्जिनः स्वप्नः साकारितः।
सहकारितामन्त्रालयस्य पञ्चमे स्थापनादिवसे नवदिल्ल्यां आयोजितं कार्यक्रमं सम्बोधयन् शाहः अवदत् यत् डा मुखर्जी कोटिशः कार्यकर्तॄणां जीवने भारतीयतां भारतमातरं प्रति श्रद्धां भारतीयसंस्कृतेः महत्त्वं च प्रतिष्ठापयितुं स्वस्य सम्पूर्णं जीवनं समर्पितवान्।
सः अवदत् यत् डा मुखर्जी एकस्मिन् देशे द्वे विधाने द्वौ प्रधानौ द्वे चिह्ने च न चलितुं शक्नुतः इति सिद्धान्तम् आधारीकृत्य आन्दोलनस्य नेतृत्वं कृतवान् तथा अस्य कृते स्वप्राणानाम् अपि बलिदानं दत्तवान्। शाहः अवदत् यत् अनुच्छेदं ३७० निराकृत्य प्रधानमन्त्रिणा मोदिना तस्य सः सङ्कल्पः पूर्णः कृतः।
गृहमन्त्री अवदत् यत् देशविभाजनस्य इतिहासं ये जानन्ति ते अवगच्छन्ति यत् यदि डा मुखर्जी तत्कालीनं काङ्ग्रेसनेतृत्वं न प्रत्याह्वयिष्यत् तर्हि अद्य असमस्य पश्चिमबङ्गालस्य च विशालः भागः पाकिस्ताने अभविष्यत्। मुखर्जिनः प्रयत्नैरेव असमः पश्चिमबङ्गालश्च भारतस्य गौरवपूर्णौ भागौ एव स्थितौ।
शाहः अवदत् यत् केन्द्रसर्वकारः डा मुखर्जिनः १२५ तमीं जयन्तीं सम्पूर्णे देशे व्यापकस्तरेण आयोजयिष्यति। सः अवदत् यत् तस्य विचारान् योगदानं च नगरीयग्रामीणक्षेत्रपर्यन्तं प्रापयितुं विविधाः कार्यक्रमाः आयोजयिष्यन्ते।
सः अवदत् यत् डा मुखर्जिनः मतम् आसीत् यत् भारतस्य शासनं देशस्य स्वकीयसांस्कृतिकपरम्पराणां स्थानीयमान्यतानां राष्ट्रियमूल्यानां च अनुरूपं सञ्चालितं भवेत् तथा तस्य सार्वजनिकजीवनम् अस्मै एव विचाराय समर्पितम् आसीत्।
-----------
Hindusthan Samachar / Dheeraj Maithani