राष्ट्रैकतायै-अखंडतायै च डॉ. श्यामा प्रसाद मुखर्जिनः समर्पितं जीवनं सदैव प्रेरणास्रोत: मंत्री कपिल देव अग्रवालः
लखनऊ, 06 जुलाईमासः (हि.स.)।भारतमातुः अमरः सुपुत्रः प्रखरः राष्ट्रवादीचिन्तकः महान् शिक्षाविद् भारतीयजनसङ्घस्य संस्थापकश्च डा श्यामाप्रसादमुखर्जी इत्यस्य पञ्चविंशत्यधिकशततमीजयन्त्याः पावनावसरे सोमवासरे लखनऊस्थिते डा श्यामाप्रसादमुखर्जी सिविल चिकित्स
डा.श्यामा प्रसाद मुखर्जी की प्रतिमा पर पुष्पांजलि करते मंत्री कपिल देव अग्रवाल


लखनऊ, 06 जुलाईमासः (हि.स.)।भारतमातुः अमरः सुपुत्रः प्रखरः राष्ट्रवादीचिन्तकः महान् शिक्षाविद् भारतीयजनसङ्घस्य संस्थापकश्च डा श्यामाप्रसादमुखर्जी इत्यस्य पञ्चविंशत्यधिकशततमीजयन्त्याः पावनावसरे सोमवासरे लखनऊस्थिते डा श्यामाप्रसादमुखर्जी सिविल चिकित्सालये तस्य प्रतिमायां पुष्पाञ्जलिं समर्प्य श्रद्धापूर्वकं नमनं कृतम्।

अस्मिन् अवसरे मन्त्री कपिलदेवअग्रवालः अवदत् यत् डा श्यामाप्रसादमुखर्जिनः राष्ट्रस्य एकतां अखण्डतां सांस्कृतिकराष्ट्रवादं च प्रति समर्पितं जीवनम् अस्माकं सर्वेषां कृते सदैव प्रेरणास्रोतः भविष्यति। सः अवदत् यत् डा मुखर्जिनः आदर्शाः विचाराः राष्ट्रं प्रथमम् इति भावना च आगामिनीः पीढीः निरन्तरं मार्गदर्शयिष्यन्ति।

सः अवदत् यत् डा श्यामाप्रसादमुखर्जी जम्मूकश्मीरं भारतस्य अभिन्नाङ्गं स्थापयितुं स्वकीयं सर्वस्वं न्योछावरितवान्। एकस्मिन् देशे द्वे विधाने द्वौ प्रधानौ द्वे च चिह्ने न चलिष्यन्ति इति तस्य उद्घोषः अद्यापि प्रत्येकस्य राष्ट्रभक्तस्य हृदये गुञ्जति। मुख्यमन्त्रिणः योगिआदित्यनाथस्य नेतृत्वे प्रदेशसर्वकारः डा मुखर्जिनः विचारान् आत्मसात्कृत्य एकं भारतं श्रेष्ठं भारतम् इति सङ्कल्पेन सह कार्यं करोति।

-----------