Enter your Email Address to subscribe to our newsletters


- मध्यप्रदेशेऽस्मिन् मासे समाननागरिकसंहिता घोषयिष्यते
भोपालम्, 06 जुलाईमासः (हि.स.) ।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् देशस्य स्वातन्त्र्यप्राप्तौ डॉ. श्यामाप्रसादमुखर्जीमहोदयस्य महत्त्वपूर्णं योगदानम् आसीत्। तस्य सम्मानार्थं सतगढ़ीक्षेत्रे डॉ. श्यामाप्रसादमुखर्जी स्मार्ट औद्योगिकोद्यानं विकसितं क्रियते। सः अवदत् यत् अस्य उच्चप्रौद्योगिकीयोद्यानस्य निर्माणेन भोपालस्य समीपवर्तिनां च क्षेत्राणां पञ्चदशसहस्राधिकेभ्यः युवभ्यः रोजगारस्य अवसराः प्राप्स्यन्ते।
मुख्यमन्त्री डॉ. यादवः सोमवासरे राजधानीभोपालस्य सतगढ़ीक्षेत्रे डॉ. श्यामाप्रसादमुखर्जी स्मार्ट औद्योगिकोद्यानस्य भूमिपूजनम् अकरोत्। अस्मिन् अवसरे देशस्य प्रदेशस्य च द्विशताधिकाः प्रमुखाः उद्योगपतयः निवेशकाश्च उपस्थिताः आसन्। भोपालस्य सतगढ़ीक्षेत्रे निर्मीयमाणम् इदम् आधुनिकम् औद्योगिकोद्यानं प्रायः त्रिसप्तत्यधिकशतं एकरपरिमितायां भूमौ ‘कार्यं कुरु निवस वर्धस्व’ इति प्रतिमानानुसारं विकसितं भविष्यति। अस्मिन् उद्याने न केवलम् उद्योगाः स्थापयिष्यन्ते, अपि तु तत्र कार्यरतकर्मचारिणां निवासार्थम् आवासव्यवस्था, कौशलविकासकेन्द्रम्, नवाचारसुविधाः तथा अन्याः सर्वाः आवश्यकाः आधारभूतसुविधाः एकस्मिन्नेव परिसरे उपलब्धाः भविष्यन्ति।
अस्मिन् अवसरे मुख्यमन्त्री डॉ. यादवः डॉ. श्यामाप्रसादमुखर्जीमहोदयस्य पञ्चविंशत्यधिकशततम्याः जयन्त्याः उपलक्ष्ये सतगढ़ीक्षेत्रस्य नाम आधिकारिकरूपेण तस्य नाम्ना करणीयमिति घोषणाम् अकरोत्। कार्यक्रमे मुख्यमन्त्री प्रदेशे समाननागरिकसंहितायाः प्रवर्तनविषये महत्त्वपूर्णां घोषणाम् अपि अकरोत्। मुख्यमन्त्री डॉ. यादवः अवदत् यत् अस्मिन्नेव मासे मध्यप्रदेशे एषः ऐतिहासिकः विधिः प्रवर्तयिष्यते। सः अवदत् यत् यदा हिन्दुभ्राता एकमेव विवाहं करोति सप्तपदीं च सम्पादयति, तदा देशस्य सर्वेषां नागरिकाणां कृते अपि समानः विधिः भवितुमर्हति।
काङ्ग्रेसदलस्य आलोचनां कुर्वन् सः अवदत् यत् विपक्षः सर्वदा तुष्टीकरणस्य राजनीतिं कुर्वन् आगतः अस्ति। अस्य विधेः प्रवर्तनानन्तरं विपक्षः पुनरपि वदिष्यति यत् एषः कस्यचित् विशिष्टधर्मस्य विरुद्धः अस्ति। मुख्यमन्त्री अवदत् यत् अस्य विधेः प्रवर्तनात् पूर्वं प्रदेशस्य जनतायाः व्यापकस्तरे अभिमतं गृहीतम्, यस्मिन् सर्वकारेण दशलक्षाधिकाः सुझावाः प्राप्ताः। सः अवदत् यत् सर्वकारः इच्छति चेत् एनं विधिं प्रत्यक्षतया विधानसभायां पारयितुं शक्नोति स्म, किन्तु लोकतान्त्रिकमूल्यानां सम्मानं कुर्वन् जनतायाः सुझावानाम् आधारेण एव एषः निर्णयः क्रियते।
सूचनाप्रौद्योगिकी कृत्रिमबुद्धिमत्ता च क्षेत्रयोः पञ्चदशसहस्राधिकेभ्यः युवभ्यः रोजगारावसराः
अस्मिन् उच्चप्रौद्योगिकीयोद्याने उच्चमूल्यनिर्माणोद्योगाः, वस्त्रनिर्माणोद्योगाः, क्रीडनकनिर्माणोद्योगाः, सूचनाप्रौद्योगिकी, कृत्रिमबुद्धिमत्ता, रसदव्यवस्था तथा नवीनप्रौद्योगिकीसम्बद्धाः उद्योगाः प्राथमिकतया प्रोत्साहयिष्यन्ते। सर्वकारस्य दावानुसारम् अस्याः महत्त्वाकाङ्क्षिण्याः परियोजनायाः माध्यमेन भोपालस्य समीपवर्तिनां च क्षेत्राणां पञ्चदशसहस्राधिकेभ्यः युवभ्यः प्रत्यक्षरूपेण परोक्षरूपेण च रोजगारावसराः प्राप्स्यन्ते। एतदतिरिक्तं प्रायः पञ्चविंशत्येकरपरिमिते क्षेत्रे विश्वस्तरीयं सम्मेलनप्रदर्शनीकेन्द्रमपि निर्मास्यते, यस्य क्षमता दशसहस्राधिकजनानां भविष्यति। तत्र अन्तर्राष्ट्रीयस्तरीयाः व्यापारशिखरसम्मेलनाः व्यापारमेलकाश्च आयोजयितुं शक्यन्ते।
भूमिपूजनेन सह शतकोटिरूप्यकाणां निवेशस्य आरम्भः
मुख्यमन्त्री कार्यक्रमे अवदत् यत् सतगढ़ीक्षेत्रे केवलं कागदपत्रेषु भूमिपूजनं न क्रियते, अपि तु धरातले तत्क्षणमेव शतकोटिरूप्यकाणां निवेशस्य आरम्भोऽपि जातः। अस्य घोषणा प्रतिष्ठितस्य सागरसमूहस्य प्रबन्धनिदेशकेन सुधीरअग्रवालेन मञ्चात् कृता। मुख्यमन्त्री स्वसम्बोधने अवदत् यत् भोपालं केवलं पर्वतानां, नदीनां, वनानां सुन्दरजलाशयानां च कृते एव न, अपि तु विशालोद्योगानां प्रचुररोजगारावसराणां च कृते सम्पूर्णे देशे नूतनां परिचितिं निर्मास्यति।
मध्यप्रदेशे दशलक्षकोटिरूप्यकाणां निवेशः धरातले कार्यरूपं प्राप्तवान्
निवेशसम्बद्धान् अङ्कान् प्रस्तुत्य मुख्यमन्त्री अवदत् यत् गतवर्षे आयोजिते वैश्विकनिवेशकशिखरसम्मेलने प्रायः त्रिंशल्लक्षकोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः आसन्। तेषु अभिलेखनीयः दशलक्षकोटिरूप्यकाणां अर्थात् प्रायः त्रिंशत्प्रतिशतपरिमितः निवेशः धरातले कार्यरूपं प्राप्तवान्। एतदतिरिक्तं केवलं कृषिक्षेत्रे षडशीतिसहस्रकोटिरूप्यकाणां निवेशः प्राप्तः अस्ति।
काङ्ग्रेसदलस्य आलोचना
मुख्यमन्त्री काङ्ग्रेसदलस्य आलोचनां कुर्वन् भोपालविषवायुदुर्घटनायाः यूनियनकार्बाइडकारखानस्य च उल्लेखम् अकरोत्। सः आरोपं कुर्वन् अवदत् यत् तत्कालीनः काङ्ग्रेससर्वकारः विषवायुदुर्घटनायाः मुख्याभियुक्ताय शासकीयविमानं प्रदाय तं देशात् सुरक्षितरूपेण बहिर्गन्तुं साहाय्यम् अकरोत्। सः इदमपि अवदत् यत् द्वौ दशकौ यावत् तत्र स्थितस्य विषाक्तापशिष्टस्य निष्कासनार्थं किमपि ठोसकार्यं न कृतम्।
मुख्यमन्त्री अवदत् यत् अस्माकं सर्वकारेण यूनियनकार्बाइडपरिसरात् तत् विषाक्तापशिष्टं निष्कासयितुं कार्यं कृतम्। अधुना तस्मिन् स्थाने भव्यं स्मारकं निर्मास्यामः, यत् दुर्घटनायां प्राणान् त्यक्तवतां सहस्रशः जनानां स्मृतिं चिरस्थायिनीं करिष्यति। तत्रैव एकं अत्याधुनिकं चिकित्सालयमपि निर्मास्यते, यत् जनानां जीवनरक्षणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani