उत्तरबङ्ग-विश्वविद्यालये जैविक-कृषेः संवर्धनाय ‘क्षेत्र-रक्षण-अभियानम्’
सिलीगुड़ीनगरम्, ०६ जुलाईमासः (हि.स.)। उत्तरबङ्ग-विश्वविद्यालये पुष्पोद्यान-एवं-कृषि-व्यवसाय-प्रबन्धन-केन्द्रेण तथा भारतीय-कृषक-सङ्घेन संयुक्ततया सञ्चालितस्य ‘क्षेत्र-रक्षण-अभियानस्य’ अन्तर्गतं सोमवासरे जैविक-कृषेः विषये एकदिवसीय-प्रशिक्षण-कार्यशाला
खेत बचाओ अभियान कार्यक्रम में शामिल राज्यमंत्री आनंदमय बर्मन


सिलीगुड़ीनगरम्, ०६ जुलाईमासः (हि.स.)। उत्तरबङ्ग-विश्वविद्यालये पुष्पोद्यान-एवं-कृषि-व्यवसाय-प्रबन्धन-केन्द्रेण तथा भारतीय-कृषक-सङ्घेन संयुक्ततया सञ्चालितस्य ‘क्षेत्र-रक्षण-अभियानस्य’ अन्तर्गतं सोमवासरे जैविक-कृषेः विषये एकदिवसीय-प्रशिक्षण-कार्यशालायाः आयोजनम् अभवत्। अस्य कार्यक्रमस्य उद्देश्यं रासायनिक-उर्वरकाणां कीटनाशकानां च उपयोगं न्यूनीकर्तुं जैविक-कृषेः संवर्धनं कर्तुं तथा कृषकान् स्थायि-कृष्यै प्रशिक्षयितुम् आसीत्।

डॉ.श्यामाप्रसाद-मुखर्जी-जयंत्याः अवसरे तस्य प्रतिमायाः माल्यार्पणं कृत्वा राज्यस्य प्रतिमन्त्री आनन्दमय-बर्मनः कार्यक्रमस्य शुभारम्भम् अकरोत्। अस्मिन् प्रशिक्षण-शिविरे उत्तरबङ्गस्य विविध-जनपदेभ्यः आगताः कृषकाः सहभागिनः अभवन् तथा जैविक-कृषेः आधुनिक-प्रविधीनां विषये सूचनाम् अलभन्त।

आयोजकैः उक्तं यत् अस्या: कार्यशालायाः प्रमुखोद्देश्यं कृषकान् रसायन-मुक्त-कृष्युत्पादनाय प्रोत्साहयितुं तथा समाजे जैविक-कृषिं प्रति जागरूकतां वर्धयितुम् अस्ति।

कोफाम-सदस्यैः अपि उक्तं यत् राज्य-सर्वकारेण खाद्य-प्रसंस्करण-एककानां उद्यानिकी-केन्द्राणां च विकासाय क्रियमाणान् प्रयत्नान् दृष्ट्वा अस्य प्रयत्नस्य आयोजनं कृतम्।

अस्मिन् अवसरे प्रतिमन्त्री आनन्दमय-बर्मनः अवदत् यत् भारतम् एकं कृषि-प्रधानं राष्ट्रम् अस्ति। कृषकानां आयवृद्ध्यर्थं कृषिं वैज्ञानिक-प्रविधिभिः सह सम्बद्धां कर्तुं सर्वकारः निरन्तरं प्रयतते।

सः अपि अवदत् यत् वित्तीय-विनियोजन-पत्रे अपि कृषि-क्षेत्राय प्राधान्यं प्रदत्तम् अस्ति। एतादृशानि प्रशिक्षण-कार्यक्रमाः कृषकान् जैविक-कृषिं स्वीकर्तुं प्रेरयिष्यन्ति, येन स्थायि-सुरक्षित-कृषि-व्यवस्थायाः संवर्धनं भविष्यति।

Hindusthan Samachar / Divya Ranjan