Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 06 जुलाईमासः, (हि.स.)।
षोडशायाः असमविधानसभायाः प्रथमं वित्तसङ्कल्पसत्रं सोमवासरात् आरब्धम्। दिसपुरस्थिते विधानसभाभवने आयोजितम् इदं सत्रं जुलाईमासस्य एकत्रिंशत्तमदिनाङ्कपर्यन्तं चलिष्यति। अस्मिन् काले वित्तीयवर्षस्य द्विसहस्रषड्विंशतिः सप्तविंशतिः इत्यस्य पूर्णः वित्तसङ्कल्पः सदने प्रस्तोष्यते।
अस्य वित्तसङ्कल्पसत्रस्य एका विशेषोपलब्धिः अस्ति यत् विधानसभायाः इतिहासे प्रथमवारं कार्यवाही असमियाभाषया आङ्ग्लभाषया बोडोभाषया च सह हिन्दीभाषायाम् अपि सञ्चालयिष्यते। अनेन सदनस्य कार्यवाही अधिकं व्यापकं भाषिकस्वरूपं प्राप्स्यति।
सत्रकाले राज्यस्य वित्तीयप्राथमिकतानां विकासयोजनानां तथा अनेकेषां महत्त्वपूर्णविधेयकानां विषये चर्चा भवितुं सम्भावना अस्ति। एतेषु असमपर्यटनविधेयकं तथा सूक्ष्मलघुमध्यमोद्यमसम्बद्धानि विधेयकानि अपि सम्मिलितानि सन्ति।
-----------
Hindusthan Samachar / Dheeraj Maithani